ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १२९-१३२ सुखविषयकाक्षेपसमाधानानि


आवर्तः १३२ – व्यवहारकाले ज्ञान्यप्यात्मविमुख एव, सः विषयानन्दस्यस्वरूपानन्दादभिन्नतां मन्यते

हे शिष्य। शृणु सावधानमनाः। यदुक्तमात्मस्वरूपवैमुख्यमेव विषयेच्छादिकारणमिति, तत् न केवलमज्ञस्यैव, किन्तु ज्ञानिनोऽपि तुल्यमेव तत्। ज्ञानी च यदा व्यवहारे प्रवर्तते तदा स *१ तत्त्वविस्मरणपूर्वकमेव प्रवर्तते। विषयप्रवृत्तिकालेऽज्ञवदास्ते ज्ञान्यपि। ज्ञानिनो हि चित्तं सदैवात्माकारमेव यदि स्यात् तदा तस्य जीवनादिनिमित्तभोजनादिव्यवहारोऽपि न सिद्ध्येत्। तस्मादात्मविमुखा बुद्धिरुभयोः समा। अज्ञस्य बुद्धिः सदा विषयासक्तत्वादात्मविमुखैव तिष्ठति। ज्ञानिनस्तु बुद्धिर्यदात्मनो विमुखा भवति, तदा विषयेच्छा तत्सम्पर्कादात्मस्वरूपानन्दाभिव्यक्तिश्चाज्ञस्येव तस्यापि जायते। तथाप्यस्त्यत्र विशेषः – “विषयसम्पर्काद्भासमानोऽप्यानन्दः स्वस्वरूपानन्दान्नातिरिच्यते किन्तु तदाभास एव” इति विजानाति ब्रह्मवित्। तथा च विषयोपभोगेऽपि ज्ञानिनः *२ समाधिरेव सिद्ध्यति। अज्ञस्तु ‘अयमानन्दः स्वरूपानन्द एव’ इति नैव वेद। परमार्थतस्तु ज्ञानी अज्ञानी चेत्युभयोरपि स्वरूपमानन्द एव; अज्ञस्य विषये आनन्दप्रतीतिर्भ्रान्तिरेव।

*१. जाग्रदाकारवृत्त्युद्भवे न स्वप्नाकारवृत्तिर्जायते, स्वप्नाकारवृत्त्युद्भवे च न जाग्रदाकारवृत्तिर्जायते। एवमेव ज्ञानिनो बुद्धिः यदा आत्माकारा तदा नानात्माकारा भवति, यदा अनात्माकारा तदा नात्माकारा भवति। यद्यप्येकान्तःकरणाधिकरणकभिन्नविषयकसामान्यविशेषरूपवृत्तिद्वयं युगपज्जायेत, तथापि विशेषरूपवृत्तिद्वयं तु नैव जायेत। यथा व्यवहारान्तरासक्तः पुरुषः पेटिकास्थधनं हस्तेन स्पृशन्नपि न स्मरति तत् धनम्, व्यवहारावसाने तु तद्धनं स्मरति; एवमेव ज्ञान्यपि व्यवहारदशायां यदा विषयाभिमुखो भवति तदा तस्य तत्त्वविस्मरणं भवति, व्यवहारसमाप्तौ पुनरपि तत्त्वनिष्ठ एव स भवति। अत एवोक्तं भाष्यकारैः श्रीभगवत्पूज्यपादैरध्यासप्रकरणे “पश्वादिभिश्चाविशेषात्। अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः” इति।

*२. ज्ञानिनो विषयोपभोगकालेऽपि विषये दोषदर्शनरूपविवेकस्य, विषयमिथ्यात्वनिश्चयपूर्वकवैराग्यस्य, विषयभोगानां परिणामे दुःखपर्यवसायित्वावधारणस्य विषय नन्दस्य स्वरूपानन्दाव्यतिरिक्तत्वनिश्चयस्य च जागरूकत्वात्, स्वरूपानुसन्धानरूपसमाधिसदृशत्वाच्च ‘सिंहो माणवकः’ इतिवत् ज्ञानिनो विषयोपभोगे समाधित्वोक्तिरौपचारिकी।