ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १२९-१३२ सुखविषयकाक्षेपसमाधानानि


आवर्तः १३१ – ज्ञानिनोऽपि विषयेष्विच्छा, विषयसंबन्धादात्मानन्दावभासश्च भवति न वेति तत्त्वदृष्टिः पृच्छति

हे सद्गुरो। विषयसंबन्धादात्मानन्दावभासक्रमोऽज्ञानिविषये प्रतिपादितो भवद्भिः, न ज्ञानिविषये। यतो यस्य बुद्धिरात्मस्वरूपविमुखा, तमधिकृत्य प्रस्तावः कृतः पूर्वं भवद्भिः। तादृश्चाज्ञान्येव न ज्ञानी। तस्मादिदानीं ज्ञानिनोऽपि विषयेष्विच्छा तस्यापि विषयसंबन्धात् पूर्वोक्तक्रमेण सुखाभिव्यक्तिश्च जायते न वेति बोधयितुमर्हन्ति भवन्तः, इति।