- १२८-१६८ ज्ञानोपदेशः
- १२९-१६८ आक्षेपसमाधानानि
- १२९-१३२ सुखविषयकाक्षेपसमाधानानि
आवर्तः १३० – अज्ञस्य विषयप्रवृत्तौ सत्यां तदीयान्तर्मुखवृत्तौ आत्मानन्दो भाति, विषयेषु नास्त्यानन्द इति समाधानम्
हे शिष्य। यस्य बुद्धिरात्मस्वरूपं न जानाति तस्य विषयेच्छा जायते। भोगसाधनानां स्त्रीधनपुत्रादीनामत्र विषयशब्देन ग्रहणम्। विषयेच्छस्य पुंसो बुद्धिश्चञ्चला भवति। चञ्चलायां बुद्धावात्मस्वरूपानन्दप्रतिबिम्बो न भासते। अभिलषितविषयलाभे तु क्षणमात्रं बुद्धिः स्थिरीभवति। तदा बुद्धिवृत्तिरन्तर्मुखा भवति। तस्यामन्तर्मुखायां वृत्तावात्मस्वरूपानन्दः प्रतिफलति। तादृशात्मस्वरूपानन्दप्रतिबिम्बं *१ अनुभवितुः पुंसो ‘विषयेभ्यो ममानन्दोऽजायत’ इति *२ भ्रान्तिरुत्पद्यते वस्तुतस्तु नैवास्ति जडे विषये आनन्दलेशोऽपि।
*१. आत्मा स्वभावत एवानन्दस्वरूपः। मनसो व्याकुलतायां सन्निहितोऽपि पदार्थो यथा न चक्षुर्गोचरो भवति, तथा यावद्रजोगुणसम्पर्काद्बुद्धिश्चञ्चला भवति तावदात्मन आनन्दांशो न बुद्धौ प्रतिभासते। यथा दर्पणे प्रचलति सति तस्मिन्नुपलभ्यमानोऽपि मुखादिप्रतिबिम्बो नैव स्फुटस्तथा रजोगुणसम्पर्काच्चलन्त्यां बुद्धावात्मनः सच्चिदंशयोः प्रतिबिम्बे भासमानेऽपि नानन्दांशप्रतिबिम्बो भासते। इष्टवस्तुलाभे सति तद्विषयकेच्छायाः, रजोगुणहेतुकबुद्धिचाञ्चल्यस्य च निवृत्तौ सत्यां प्राप्तेष्टवस्तुविषयकज्ञानरूपया सात्त्विकवृत्त्या विषयोपहितचैतन्यस्वरूपानन्दो विभाव्यते अथवा इष्टवस्तुलाभमात्रेण तद्विषयकेच्छारूपवृत्तिर्निवर्तते। तेनैव हेतुनान्या काचिदन्तर्मुखा सात्त्विकी वृत्तिरुदेति। तथा अन्तःकरणोपहितात्मानन्दः प्रकाशते। ईदृशान्तर्मुखान्तःकरणवृत्तिप्रतिफलितात्मस्वरूपा। नन्दप्रतिबिम्बो विषयानन्दः, प्रतिबिम्बानन्दः, लेशानन्द इति च कथ्यते।
*२. दुःखात्मकविषयानुभवकालीनसुखस्य वस्तुत आत्मस्वरूपसुखत्वेऽपि, विषयनिष्ठतया तज्जन्यत्वेन च तत्सुखस्य भानं भ्रमाद्भवति। यथा शुनः शुष्कास्थिखादनकाले स्वतालुजन्यरक्ते अस्थिजन्यत्वभ्रमस्तद्वत्।
किञ्च आनन्दोत्पत्तेर्विषयाधीनत्वे यत्किञ्चिद्विषयजन्यानन्दमनुभवतः पुंसो विषयान्तरे इच्छोत्पत्तिदशायामपि प्राचीनविषयानन्दोऽनुवर्तितुमर्हति; न तु तथास्त्यनुभवः। अस्मत्सिद्धान्ते तु विषयान्तरासक्त्या पुनरपि बुद्धिचाञ्चल्ये सति तस्यां चञ्चलबुद्धौ न स्वरूपानन्दप्रतिबिम्बो भातीति समाधानं ज्ञेयम्।
किञ्चान्यत्, यदि विषयादेवानन्दो नियमेन जायेत तदा प्रवासादागतपुत्रदर्शनजन्यानन्दः सदानुवर्तितुमर्हति ; न तु तथा भवति। तथा हि कस्यचित् प्रियतरः पुत्रश्चिरप्रवासी कालान्तरे प्रत्यागमत्। तद्दर्शनक्षणे जायमानः पितुरानन्दः चिरकालमविच्छिन्नतयानुवर्तितुमर्हति, आनन्दहेतोः पुत्रस्य सदा सन्निहितत्वात्। न तु तथानुभूयते। सिद्धान्ते तु पुत्रदर्शनादितत्तद्विषयजन्यानन्दस्य चिरमननुवृत्तिरेवमुपपद्यते तत्तद्विषयलाभक्षणे बुद्धिर्नि श्चलीभवति। तदा निश्चलायां बुद्धिवृत्तावात्मस्वरूपानन्दः प्रतिबिम्बितो भवति। स एवानन्दोऽनुभूयते। ततो विषयान्तरेच्छया पुनरपि बुद्धेश्चाञ्चल्ये सति तस्यां बुद्धौ स्वरूपानन्दप्रतिफलनस्य विच्छेदात, पुरत एव सत्यपि प्राचीनविषये, नानन्दानुवृत्तिः। तस्मान्न विषयेऽस्त्यानन्दः। किञ्च यदि नियमेन विषयाधीन एवानन्दो भवेत् तदा समाधौ *१ योगानन्दो न प्रकाशेत। तथा सुषुप्तावपि नानन्दभानं स्यात्। *२ सुषुप्तिसमाध्योर्दृश्यरूपविषयसंबन्धस्याभावात्। तस्मान्न विषये आनन्दलेशोऽप्यस्ति। किन्त्वात्मस्वरूपानन्द एव सर्वात्मना सर्वत्रावभासते। “रसो वै सः, रसँ ह्येवायं लब्ध्वानन्दी भवति” (तै. ब्र. ७) “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति” (बृ. ४.३.३२) इत्यादिश्रुतेः।
*१. चित्तैकाग्रतारूपयोगाभिव्यङ्ग्य आनन्दः।
*२. सुषुप्तिदृष्टान्तस्तु सर्वजनप्रसिद्ध्यर्थम्।
हे शिष्य। निरतिशयानन्दस्वरूप एवात्मेति विषयसंबन्धाच्च स आनन्दोऽभिव्यज्यते इति जानीहि –
अदृश्यो दृश्यते राहुर्गृहीतेन यथेन्दुना।
तथानुभवमात्रात्मा दृश्येनात्मावलोक्यते॥ इति स्मृतेः।
अयमेव समीचीनः सिद्धान्तः। यद्यस्त्यत्र ते संशयो निर्व्यलीकमेव पृच्छ। पुनः सुस्फुटमेव त्वां बोधयेयमिति गुरुराह।