ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२८-१६८ ज्ञानोपदेशः

- १२८-१६८ आक्षेपसमाधानानि
- १२८-१६८ सुखविषयकाक्षेपसमाधानानि

आवर्तः १२९ – आत्मन आनन्दरूपत्वे विषयसंबन्धादानन्दभानं नोचितमित्याक्षेपः

हे स्वामिन्। ममात्मा यदि नित्यनिरतिशयपरमानन्दरूप एव भवति, तदा विषयेन्द्रियसंबन्धाधीनतया आत्मन्यानन्दानुभवो नोपपद्ये। अनुभूयत एव तु विषयसंबन्धादात्मन्यानन्दः। तस्मान्नैवानन्दरूप आत्मा। किन्तु विषयसंबन्धादेवात्मन्यानन्दो जायते।