- १२२-२२५ ज्ञानोपदेशः
आवर्तः १२८ – शिष्यस्य मोक्षेच्छा भ्रान्तिजन्येत्युपपादनपूर्वकं महावाक्यार्थोपदेशः
आत्यन्तिकदुःखनिवृत्तिः परमानन्दप्राप्तिश्च मोक्ष इति कथ्यते। शिष्यस्य मोक्षेच्छां ज्ञात्वा गुरुस्तदुपायभूतं वेदान्तैकसमधिगम्यं ज्ञानमुपदिशति। ज्ञानस्वरूपस्य नानाशास्त्रेषु नानाप्रकारेणोक्तत्वेऽपि जीवब्रह्मभेदनिवर्तकज्ञानस्यैव मोक्षसाधनत्वेन वेदेषु प्रतिपादितत्वात्तादृशमेव ज्ञानमुपदिशति हे शिष्य। परमानन्दावाप्तौ जननमरणादिदुःखरूपसंसारनिवृत्तौ च तवोत्पन्नेच्छा भ्रान्तिजन्येत्यवेहि। यतस्त्वं निसर्गत एव निरतिशयपरमानन्दस्वरूपोऽसि तस्मात् सदा परमानन्दस्वरूपेणैव सतस्तव पुनस्तत्प्राप्तीच्छा न युज्यते। यन्न प्राप्तं तल्लाभायैवोचितेच्छा। त्वत्स्वरूपं तु त्वया सर्वदा प्राप्तमेवेत्यतस्तत्प्राप्तये तव जायमानेच्छा भ्रममन्तरा न सङ्गच्छते।
किञ्च जननमरणादिरूपः संसारो यदि कदाचित् त्वय्यभूत्तदा तव तन्निवृत्तये इच्छोचिता भवेत्। वस्तुतस्तु स संसार ईषदपि कालत्रयेऽपि नास्त्येव त्वयि। तस्मात्कालत्रयेऽप्यविद्यमानस्य संसारदुःखस्य निविवृत्सा ते भ्रममन्तरा न घटते। हे शिष्य त्वं तु जननमरणादिसर्वसंसारशून्यचिन्मात्रस्वरूपब्रह्मैवासि। तस्मान्मा स्मर कदापि जननमरणादिदुःखरूपं संसारम्।