ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्


आवर्तः १२७ – मुमुक्षाभिव्यञ्जकस्तत्त्वदृष्टिप्रश्नः

श्रीगुरोः कारुण्यं ज्ञात्वा हृदयानन्दसन्दोहतुन्दिलः संस्तत्त्वदृष्टिः स्वाभिलषितकार्यं सिद्धमिति निश्चित्य सविनयं पप्रच्छ हे भगवन्। भवान् कृपानिधिः श्रीसदाशिवदक्षिणामूर्तिसमः सर्वज्ञः। वयं तु सर्वेऽज्ञाः जननमरणादिदुःखरूपसंसाराद्बिभीमः। अस्माकं तन्निवृत्तेः परमानन्दप्राप्तेश्चोपायो वक्तव्यः। नानाप्रकारोपासनानि कर्माणि चानुष्ठितानि। नैवास्मदभिलषितार्थसिद्धिरभूत्, प्रत्युत संसारात्मकबन्ध एव दृढीभवति। तस्मात् येनोपायान्तरेण वयं कृतार्था भवेम तमुपायमस्मान् शाधि भोः।