-
१२२-२२५
चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
आवर्तः १२६ – तत्त्वदृष्टिर्गुरोरनुमतिं प्रार्थयते
‘हे भगवन्। वयं त्रयोऽपि भ्रातरः शुभसन्ततेः राज्ञः कुमाराः अज्ञाः अत्यन्तं शोच्याः निजस्वरूपजिज्ञासवो भवन्तं शरणं गताः। भवान् हि कृपासमुद्रः कल्पतरुचिन्तामणिकामधेनुवच्च विराजते। वयं तु दुःखवशंवदाः। यद्याज्ञा दीयते तर्ह्यस्मदभिप्रायं निवेदयामः’ इति तत्त्वदृष्टिः प्राह। ‘हे शिष्य। शृणु मे वचः। तच्छ्रवणेन त्वद्धृदयग्रन्थयः संशयाश्च समूलमुन्मूलिता भवेयुः, त्वं च परमानन्दं प्राप्नुयाः’ इति गुरुरवोचत्।