- १२२-१२५ शुभसंततेः राज्ञः, तत्त्वदृष्टिरिति, अदृष्टिरिति, तर्कदृष्टिरिति समाख्यातानां तत्पुत्राणां च कथा
आवर्तः १२५ – स्वगृहान्निर्गत्य त्रयाणां गुरूपसदनम्
एवं निर्णीय ते त्रयोऽपि पुत्रा मुमुक्षवः शुभसन्ततिरिति पितुर्नामान्वर्थीकुर्वन्तः सद्गुरुमन्वेष्टुं राजगृहान्निर्ययुः। अनेकदेशानटित्वान्ततस्ते गङ्गातटमेव प्राप्य तत्र विविक्ते देशेऽत्युन्नतशाखास्कन्धफलपलाशशालिभिर्वृक्षैर्निबिडिते कस्यचिद्वटतरोर्मूले *१ चिन्मुद्रया जीवब्रह्मैक्यं स्वशिष्येभ्यो *२ निर्दुष्टेभ्य उपदिशन्तं गुणातीतं श्रीसद्गुरुं ददृशुः। कैलासे महाभाण्डीरवटमूले सनकादिभ्यस्तत्त्वमुपदिशन्तं परमशिवं श्रीदक्षिणामूर्तिमिव ते तं विभाव्य, साष्टाङ्गं प्रणिपत्य, मोक्षेच्छया *३ यथाविधि तं शरणं गतास्तन्निकटे षण्मासान् ब्रह्मचर्यमूषुः। ततः श्रीसद्गुरुः प्रसन्नो भूत्वा मधुरया गिरा केन प्रयोजनेनागता यूयम्, के यूयम्, कुतो वात्रागमनम् इति तान् पप्रच्छ। तदा तत्त्वदृष्टिर्भ्रात्रोरिङ्गितज्ञः साञ्जलिपुटः सविनयं प्रत्यब्रवीत्।
*१. अङ्गुष्ठतर्जनीयोगश्चिन्मुद्रेति कीर्त्यते। इयं भद्रामुद्रा, लोपामुद्रा, तर्कमुद्रा, ज्ञानमुद्रा चेति कीर्त्यते।
*२. स्तेयम्, हिंसा, अब्रह्मचर्यमित्येते त्रयः शरीरदोषाः। अनृतम्, परनिन्दा, कटुभाषणम्, वृथालापः, इत्येते चत्वारो वाग्दोषाः। इच्छा, चिन्ता, बुद्धिमान्द्यमित्येते त्रयो मनोदोषाः। नृसिंहतापिन्युपनिषत्प्रसिद्धा एते दश दोषाः।
*३. तृतीयतरङ्गोक्तविधानेन।