ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२२-१२५ शुभसंततेः राज्ञः, तत्त्वदृष्टिरिति, अदृष्टिरिति, तर्कदृष्टिरिति समाख्यातानां तत्पुत्राणां च कथा


आवर्तः १२४ – पुत्राणामपि राज्यजिहासा

पुत्राणामपि राज्यजिहासा – पितृवाक्यमिदं श्रुत्वा सद्युक्तिबुद्धियुक्तास्त्रयोऽपि पुत्रा एकान्ते सम्भूयैवं समालोचयन् ‘पितास्मान् संसारसागरे दुःखोदर्के पातयित्वा स्वयं ब्रह्मानन्दं प्रतिपित्सति। यस्मादात्मविचारासक्तोऽपारदुःखरूपत्वादखण्डमसपत्नमपि राज्यं पिता जिहासति, तस्माद्वयमपीदं राज्यमत्यन्तदुःखरूपं परित्यजेम’ इति।