ॐ गुरुपरमात्मने नमः

- १२२-२२५ चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- १२२-१२५ शुभसंततेः राज्ञः, तत्त्वदृष्टिरिति, अदृष्टिरिति, तर्कदृष्टिरिति समाख्यातानां तत्पुत्राणां च कथा


आवर्तः १२३ – पुत्रेषु राज्यं समर्प्य शुभसन्ततेः प्रव्रजनम्

तस्य राज्ञः कदाचित्स्वपूर्वपुण्यवशात् ‘आत्मा अजो नित्यो निरतिशयानन्दस्वरूपश्च; ततोऽन्यत् सर्वं दुःखात्मकम्’ इति विवेक उदियाय। तदा सोऽचिन्तयत् ‘अहमात्मविचारं कुर्याम्, त्रयः पुत्रा मम लोकत्रयं पालयन्तु’ इति। ततो मन्त्रिद्वारा पुत्रान् स्वसमीपमानाय्य स्वस्य भोगे वैराग्यमेकान्ते रतिं च तेभ्यो निवेद्य राज्याधिकारमङ्गीकर्तुं तानाज्ञापयन्नेकैकस्मै एकैकं लोकं विभज्यादात्। विभज्य राज्यादाने पुत्राणां मिथः कलहः, तन्मूलकतया प्रजानां दुःखं च भवेदिति मन्वानो राजा स्वयमेव स्वराज्यं पुत्रेभ्यो विभज्यादात्। यत्र मानवो मृतः सन् परमेश्वरात्तारकमन्त्रोपदेशं लब्ध्वानायासेन *२ मुक्तिं लभेत, च सर्वान्तर्यामी विश्वेश्वरः सदा सन्निहितः, यत्र चातिगभीरा गङ्गा ‘उत्तरवाहिनी’ इति प्रथिता प्रवहति, तत्र काशीनगरे स्थित्वा स्वस्वराज्यं पालयितुं पुत्रानादिदेश स राजा। पुनरपि स पुत्रानवोचत् – ‘अयमपारः संसारो दुःखरूपः। पामरास्तु तं सुखरूपं मत्वा सांसारिकभोगाय धनमेवात्यादरेणोपार्जयन्ति। न तु मुक्त्यर्थमात्मविचारं कुर्वन्ति। ईदृशपामरजनैः सह वासं विहायैकान्ते निजसुखलाभायाहं यतिष्ये’ इति।

२. काश्यां हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे, येनासावमृतो भूत्वा मोक्षं लभते।

यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः।
जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत्॥ इति श्रुत्यभिप्रायोऽत्र दर्शितः।