ॐ गुरुपरमात्मने नमः


- चतुर्थतरङ्गः -- उत्तमाधिकारिण उपदेशनिरूपणम्
- शुभसंततेः राज्ञः, तत्त्वदृष्टिरिति, अदृष्टिरिति, तर्कदृष्टिरिति समाख्यातानां तत्पुत्राणां च कथा

इदानीं गुरुशिष्यसंवादात्मिका काचन *१ अपूर्वाख्यायिका विरच्यते। एतच्छ्रवणमात्रेण जिज्ञासुर्मुमुक्षुरात्मविचारे भृशं समर्थो भवेत्।

*१. श्रुत्यादिषूपलभ्यमानजनकयाज्ञवल्क्याद्याख्यायिकावदियं गुरुशिष्यसंवादात्मिका कथा पुराणाद्यप्रसिद्धापि स्वबुद्धिमात्रेणापूर्वतया कल्प्यते।

आवर्तः १२२ – शुभसन्ततेस्त्रैलोक्याधिपत्यम्

शुभसन्ततिर्नाम कश्चन राजा लोकत्रयमनुशशास। तस्यासंस्त्रयः पुत्राः तत्त्वदृष्टिः, अदृष्टिः, तर्कदृष्टिरिति च विख्याताः, चतुःशास्त्रप्रवीणाश्च। ते च क्रमेणास्मिन् ग्रन्थे चतुर्थपञ्चमषष्ठतरङ्गेषूत्तममध्यमकनिष्ठाधिकारित्वेन वर्ण्यन्ते। राजा तु शुभसन्ततिः शैशवं क्रीडायाम्, यौवनं च स्त्रीभोगे विनियुञ्जानोऽपि स्वभुजबलेन लोकत्रयमपि न्याय्येन मार्गेणापालयत्।