आवर्तः १२१ – श्रीसद्गुरुलाभानन्तरं शिष्याचरणप्रकारः
निःश्रेयसार्थिना मुमुक्षुणा पूर्वोक्तप्रकारेण शरीरादीन् श्रीसद्गुरवे समर्प्य, तद्वसतावन्यत्र वा गुरोः समीपे वसता, दृढतरात्मापरोक्षसाक्षात्कारपर्यन्तं भिक्षाशिना *१ च भाव्यम्। ताञ्च भिक्षां स्वातन्त्र्येण न भुञ्जीत, श्रीसद्गुरुसन्निधौ समर्पयेत्। श्रीसद्गुरोरनुज्ञा स्याच्चेत् तदाश्नीयाद्भिक्षाम्। यदि गुरोः शिष्यभक्त्यतिशयपरीक्षणाय नानुमन्येत तदा तूष्णीमेवोपवसेत्। न चैकस्मिन्दिवसे द्विर्भिक्षार्थं ग्रामं प्रविशेत्। ततः परेद्युर्यथाविधि भिक्षाचर्यं चरेत्। एवं गुरुं सेवमानो न मनागपि मनोविकृतिमाद्येत। यदा चिरकालमेवं सेव्यमानो गुरुः प्रसीदति तदा तत्समयं प्रतीक्ष्य स्वजिज्ञासां तस्मै निवेदयेत्।
*१. अयं च नियमो ब्रह्मचारिसन्यासिनाम्, न गृहस्थस्य।संस्कृतविचारसागरे उत्तमाधिकारिण उपदेशनिरूपणं नाम
स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या॥(वि. चू. ३७)
इत्यादिस्तुतिपूर्वकं प्रश्नेच्छां निवेदयेत्। यदि पृच्छेत्यनुमतिं दद्यात्तदा स्वसंशयो निवेदनीयः। शिष्यस्यानन्तजन्मान्तरार्जितपुण्यपुञ्जवशात् श्रीसद्गुरुः कृपया केवलं धनाद्यनपेक्षया यद्युपदिशेत्, तदोत्तमाधिकारिणस्तस्य निरतिशयकल्याणं जायेत्। तत्रोत्तमोत्तमब्रह्मनिष्ठश्रीसद्गुरुसेवायाः फलं द्विविधम्; श्रीसद्गुरोर्निरतिशयप्रसादलाभः प्रथमं फलम्, द्वितीयं फलं तु कामक्रोधादिसर्वमलनिवृत्तिद्वारान्तःकरणशुद्धिः। एतद्द्वयमप्युत्तमाधिकारिणः शिष्यस्य सिद्धमेव भवति।
गुरवे यो मनोवाचौ कायार्थादि समर्प्य तम्।
सेवते भवति ब्रह्म प्रसादातिशयाद्गुरोः॥
यस्तु मनोवाक्कायादिकं श्रीसद्गुरवे समर्प्यहोरात्रं तं शुश्रूषते सहि ब्रह्मैव भवति। सद्गुरुश्चास्मै साहाय्यं करोति।
॥इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे गुरुशिष्यस्वरूपनिरूपणं नाम तृतीयस्तरङ्गः॥