-
१०९-१२१
तृतीयतरङ्गः -- गुरुशिष्यस्वरूपनिरूपणम्
आवर्तः १२० – धनार्पणम्
पत्नीपुत्रभूमिपशुदासीदासद्रव्यगृहधान्यानां धनमिति लोकप्रसिद्धिः। एतत्सर्वं सन्यस्य शरणत्वेन श्रीसद्गुरोरुपसदनमेव धनार्पणमुच्यते। सन्यासित्वेन सर्वसङ्गपरित्यागस्य कृतत्वात्कृतार्थः श्रीसद्गुरुर्न धनादिकं किञ्चिदप्यपेक्षेत शिष्येभ्यः। अत एव सर्वपरिग्रहत्यागपूर्वकं स्वार्पणमेव गुरवे धनार्पणमित्युच्यते। यदि स्याद्गुरुर्गृहाश्रमी तदा सर्वं धनं तस्मा एव समर्पयेत्। “इमे विदेहाः अयमहमस्मि “ (बृ. ४.२.४) इतिवत्। अयमपरो धनार्पणप्रकारः। न च ब्रह्मविच्चेद्गुरुः स कथं गृहाश्रमी स्यादिति शङ्खयम्। वसिष्ठविश्वामित्रव्यासयाज्ञवल्क्योद्दालकरामकृष्णादयोऽपि श्रीसद्गुरुवो गृहाश्रम एवावर्तन्त इति श्रुतिस्मृतिशतेभ्योऽवगम्यते तस्माद्गृहाश्रमे वर्तमाना अपि ब्रह्मनिष्ठा गुरवो भवेयुः।