ॐ गुरुपरमात्मने नमः

- १०९-१२१ तृतीयतरङ्गः -- गुरुशिष्यस्वरूपनिरूपणम्


आवर्तः ११५ – श्रीगुरुसेवा

यस्य ब्रह्मविदो वाक् वेदवाक्यसमा तमेव ब्रह्मविदमाचार्यबुद्ध्योपासीत जिज्ञासुः। यदोपासनया गुरुरावर्जितो (आकर्षितः) भवति तदा जिज्ञासुर्निजस्वरूपमपरोक्षीकरोति। एतेन गुरुसेवाऽभ्यधिकेश्वरसेवात इति सिद्ध्यति। ईश्वरसेवादृष्टफलमात्रहेतुः, सद्गुरुसेवा तु दृष्टादृष्टोभयफलहेतुः। धर्माधर्मोत्पत्तिद्वारा फलहेतुर्यो भवति सः अदृष्टफलहेतुः इति, धर्माधर्मोत्पत्तिं विनैव साक्षात्फलहेतुर्यो भवति स दृष्टफलहेतुः इति चोच्यते। ईश्वरसेवा धर्मोत्पत्तिद्वारान्तःकरणशुद्धिरूपफलहेतुर्भवति; अत एवेश्वरसेवाऽदृष्टफलहेतुः। सद्गुरुसेवा तु धर्मनिरपेक्षा आचार्यप्रसादमात्रेणोपदेशात्मकफलहेतुर्भवति। तस्मात् दृष्टफलहेतुः सद्गुरुसेवेत्युच्यते। किञ्च सद्गुरुसेवा धर्मोत्पत्तिद्वारान्तःकरणशुद्धिरूपफलहेतुश्चेश्वरसेवावद्भवति। अतोऽदृष्टफलहेतुरपि भवति। एतेनाचार्यसेवा हीश्वरोपासनातोऽधिकतरा विज्ञायते। तस्मात् सर्वथा जिज्ञासुमुमुक्षुभिः श्रीसद्गुरुवरो ब्रह्मनिष्ठ एव सदा सेव्यः।