आवर्तः ११४ – पौरुषेयप्रबन्धादपि ज्ञानं जायेत्
ब्रह्मविन्मुखादेव वेदार्थो ग्रहीतव्य इति पूर्वावर्ते उक्तत्वाद्वेदान्तवाक्यार्थविचारेणैव जीवब्रह्मैक्यज्ञानं जायेत, न त्वितरैः पौरुषेयैः संस्कृतग्रन्थैर्वा भाषाप्रबन्धैर्वेति सिद्धम्। अस्य प्रबन्धस्य पौरुषेयत्वादारम्भो व्यर्थ इत्याशङ्कायाम् *२ उच्यते - “स यो ह वै तत् परं ब्रह्म वेद ब्रह्मैव स्फुटं भवति” (मु. ३.२.९) इत्यादिश्रुत्या ब्रह्मवित् ज्ञानी ब्रह्मैव।
*२. पौरुषेयवेदान्तप्रकरणग्रन्थैर्ज्ञानं न जायेतेति वदन् वादी प्रष्टव्यः। (१) किं तादृशग्रन्थैर्वेदवचनानुसारित्वाभावान्न ज्ञानं जायेत, (२) उत वेदार्थानुसारित्वाभावाद्वेति।
वेदवचनानुसारित्वाभावादिति चेत् स्मृतीतिहासपुराणादीनामपि तथात्वात्तेभ्योऽपि ज्ञानानुत्पत्तिप्रसङ्गः। अथ वेदार्थानुसारित्वाभावादिति चेत्, तन्न। यथा बहवः स्मृतिपुराणादयो ग्रन्था वेदार्थसारिण एव तथा संस्कृतप्राकृतभाषादिमयवेदान्तप्रकरणग्रन्था अपि बहवो वेदार्थानुसारिणो भवन्त्येव। यथा चायुर्वेदानुसारिसंस्कृतप्राकृतादिग्रन्था रोगतिन्निवर्तकौषधादिज्ञानं जनयन्ति तथा वेदार्थानुसारिसंस्कृतप्राकृतादिवेदान्तप्रकरणग्रन्था अपि अद्वितीयात्मविज्ञानं तदुपायज्ञानं च जनयेयुरेव।
अत एव तस्य वाक् वेदरूपैव। सा च वाक्, संस्कृतरूपा वास्तु भाषाप्रबन्धादिरूपा वास्तु, सर्वथा तस्य वचनं भेदभ्रमं निवर्तयति निःशेषम्। ननु “वेदान्तविज्ञानसुनिश्चितार्थाः” (मु. ३.२.६) “तं त्वौपनिषदं पुरुषम्” (बृ. ३.९.२६) इत्यादिश्रुतिभिर्वेदवाक्यादेव ब्रह्मज्ञानं जायेत न तु प्रमाणभूतैरपि प्रबन्धान्तरैरिति चेन्न; तथादर्शनात्। आयुर्वेदोक्तरोगतन्निदानस्थानौषधादीनां ज्ञानमितरसंस्कृतवैद्यग्रन्थैः प्राकृतभाषादिग्रन्थैश्च यथा सममेवोत्पद्यते, तथा सर्वेषां प्रत्यक्चैतन्याभिन्नाद्वितीयब्रह्मज्ञानमपि पौरुषेयग्रन्थैरपि जायेतैव। अत एव सर्वज्ञैर्मुनिभिर्महर्षिभिर्ब्रह्मनिष्ठैः वेदान्तार्थानुवादकैः स्मृतीतिहासपुराणादिबहुग्रन्थैरद्वितीयब्रह्मात्मविद्या विवृता वर्तते। विनोपनिषदा ज्ञानं चेन्नोत्पद्येत, तदा तैः स्मृत्यादिप्रणयनं व्यर्थं प्रसज्येत। तस्मादुपनिषदामविरोधेनात्मस्वरूपप्रतिपादनपरैर्यैः कैश्चिदपि ग्रन्थैर्ज्ञानं जायेतैवेत्यभ्युपगन्तव्यम्। तत्प्रतिपादकवाक्यानि वैदिकानि वा सन्तु भाषान्तरभूतानि वा, नैवास्ति विशेषः। एवञ्च पौरुषेयग्रन्थैरपि ज्ञानं जायेतेति सिद्धम्।