-
१०९-१२१
तृतीयतरङ्गः -- गुरुशिष्यस्वरूपनिरूपणम्
आवर्तः ११३ – ब्रह्मज्ञानाद्गुरोरेव वेदार्थो ग्राह्यः
यथा दृतिमुखाद्वा घटमुखाद्वा गृहीतं समुद्रजलं स्वविलक्षणरसास्वादनहेतुर्न भवति, तथाज्ञपुरुषमुखाद्गृहीतं वेदरूपसमुद्रस्यार्थरूपं जलं विलक्षणानन्दजनकं न भवति। तस्मादज्ञः पाठकगुरुर्दृतिघटादिसमः। ज्ञानी गुरुर्मेघसम इति प्रागुक्तम्। तस्मान्मुमुक्षुर्दृतिघटादितुल्यमज्ञपाठकगुरुं हित्वा मेघतुल्यब्रह्मज्ञगुरुमुखाद्वेदार्थश्रवणं कुर्यात् “तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् “ (मु. १.२.१२) “उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः” (भ.गी. ४.३४) इत्यादिश्रुतिस्मृतिभ्यः।