ॐ गुरुपरमात्मने नमः

- १०९-१२१ तृतीयतरङ्गः -- गुरुशिष्यस्वरूपनिरूपणम्


आवर्तः ११२ – गुरुभक्तेः फलम्

ईश्वरापेक्षयाप्यधिकतया श्रद्धाभक्तिप्रणामादिकं गुरौ शिष्येण कर्तव्यम्। यतोऽखिलशास्त्रव्युत्पन्नोऽपि गुरूपदेशमन्तरा स्वात्मतत्त्वं न जानीयात्। “नैषा तर्केण मतिरापनेया” (क. १.२.९) “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन” (क. १.२.२३, मु. ३.२.३) “आचार्यवान् पुरुषो वेद” (छा. ६.१४.२) “आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् (छा. ४.९.३) इति श्रुतेः। अयमेवार्थो वक्ष्यमाणदृष्टान्तेन स्फुटीक्रियते। तथा हि, वेदरूपसमुद्रो गुरूपदेशाभावे क्षारो भवति। क्षारसागरे पतितस्तज्जलं पीत्वा केवलं दुःखमेवानुभवति यथा, तथा गुरूपदेशं विनैव शास्त्रान्तरकुशला अपि स्वातन्त्र्येण वेदार्थं विचारयन्तो गुरुसंप्रदायाभावाद्भेद एव सर्ववेदार्थ इति स्वमतिविभवानुसारेण निश्चित्य भेदरूपक्षारजलमेवास्वाद्य जननमरणप्रबन्धात्मकदुःखमेवाविश्रममनुभवन्ति न तु मुक्तिरूपनित्यनिरतिशयानन्दं लभन्ते। जीवब्रह्मैक्योपदेष्टैव गुरुरिति *१ गुरुलक्षणं निरूपतिम्; तादृशादखण्डब्रह्मात्मैकत्वविदः सद्गुरोर्मुखाद्ये वेदान्तविचारं कुर्वन्ति, ते देवामृतादप्यधिकं निरतिशयं ब्रह्मानन्दमनुभवन्ति।

*१. बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत॥

आचिनोतीति हि शास्त्रमाचारे स्थापयत्यपि।
स्वयमाचरते यस्मादाचार्यस्तेन कथ्यते॥

गुकारो ह्यन्धकारः स्यात् रुकारस्तन्निवर्तकः।
ब्रह्मान्धकारनाशित्वाद्गुरुरित्युच्यते बुधैः॥

यथा स्वभावतः क्षारं समुद्रजलं पात्रेण गृहीत्वा पीतञ्चेत्तदा क्षारमेव भवति, तदेव समुद्रजलं मेघैराकृष्य वृष्टं सत् पीतं चेदतिमधुरं भवति; तथा वेदार्थोऽपि स्वातन्त्र्येण गुरुसंप्रदायं विना विचारितश्चेज्जननमरणदुःखहेतुर्भवति, स एवाद्वैतब्रह्मात्मापरोक्षानुभविश्री सद्गुरुमुखादवाप्यते चेन्नित्यनिरतिशयापरोक्षाखण्डानन्दस्वरूपात्माधिगमाय भवति। तस्माद्गुरुमुखादेव वेदार्थो ग्राह्यो वैदिकेन।