ॐ गुरुपरमात्मने नमः

- १०९-१२१ तृतीयतरङ्गः -- गुरुशिष्यस्वरूपनिरूपणम्


आवर्तः ११६ – गुरुसेवाक्रमः

श्रीसद्गुरुलाभोत्तरक्षणे तद्दर्शनमात्रात् *१ साष्टाङ्गं नमस्कृत्य तच्चरणकमलरजांसि परिशुद्धतमानि स्वोत्तमाङ्गे धारयेत्।

*१ पद्भ्यां कराभ्यामूरुभ्यामुरसा शिरसा भुवि।
पतनं दीर्घतरुवत् प्रणामोऽष्टाङ्ग उच्यते॥
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा।
वचसा मनसा चैव प्रणामोऽष्टाङ्ग उच्यते॥

पश्चात् सद्गुरुप्रसादाद्बन्धमोचनाकाङ्क्षी तीव्रतरमुमुक्षुर्गुरुकुले ब्रह्मचारी वसेत्। तस्मै स्वशरीरमनोवाग्धनानि समर्पयेत्।