ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्


आवर्तः २१ – ज्ञानोत्पत्तिसाधनानि

विवेकादिचतुष्टयं श्रवणमनननिदिध्यासनानि त्रीणि, तत्त्वपदार्थशोधनं *२ चेत्यष्टौ ज्ञानसाधनानि॥

The eight sādhanas for jñāna are: viveka etc (4), śravaṇa, manana, nididhyāsana (3) and tat-tvam-padārtha-śodhana (1), for a total of 8.

*२. यथा हंसेन क्षीरनीरविवेचनं क्रियते, यथा वा दध्नो नवनीतस्य विवेचनं क्रियते, एवं चिज्जडयोरुपलभ्यमानकारणकार्यत्वाधिष्ठानारोपितत्वदृग्दृश्यत्वसाक्षिसाक्ष्यत्वादिस्वरूपस्य शास्त्रानुसारिविचारणमेव शोधनम्

Just as a swan separates milk from water, or as we separate curd from butter; the vicāra according to śāstra is śodhanam. This takes the form of separating cit and jaḍa using (1) kāraṇa and kārya, (2) adhiṣṭḥāna and āropita, (3) dr̥k and dr̥śya, (4) sākṣī and sākṣya etc.