- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्
आवर्तः १९ – शमादिषट्कं, शमादीनां परस्परसहायता
शमादिषट्कं नाम – शमदमश्रद्धासमाधानोपरतितितिक्षाः।
The sixfold śama etc are: śama, dama, śraddhā, samādhāna, uparati and titikṣā.
*२ शमो नाम – प्राचीनविषयवासनात्यागपूर्वकं विषयेभ्यो मनसः प्रतिनिवर्तनम्।
*२. विषयदोषदृष्ट्यात्मकाङ्कुशेन मनोरूपमातङ्गस्य स्वायत्तीकरणं शमः।
Leaving behind old vāsanās, and reverting the mind away from objects is śama. It is controlling the mind-elephant using the hook that is viṣaya-doṣa-dr̥ṣṭi.
*३ दमो नाम – तद्वत् विषयेभ्यो बाह्येन्द्रियाणां प्रतिनिवर्तनम्।
*३. दोषदृष्टिपूर्वकं शास्त्रचिन्तारूपकशाघातेन तत्तच्छन्दादिविषयरूपविषममार्गेभ्य इन्द्रियरूपहयानां स्ववशतापादनं दमः।
In the same way, reverting the senses away from objects is dama. Along with doṣa dr̥ṣṭi, the whip of śāstra cintanam is used to move the sense-horses away from independent movement to be under control. This is dama.
*४ श्रद्धा नाम – गुरुवेदान्तवाक्येषु दृढतरविश्वासः, आस्तिक्यम्।
*४. यस्य त्वीश्वराचार्यवेदवाक्यादिषु पूज्यत्वग्रहेण प्रेमातिशयरूपा निरतिशयभक्तिः संजायते, तस्यैव वेदशास्त्राचार्यादिषु श्रद्धा जायेत, नेतरस्य। अतः श्रद्धा भक्तिं अपेक्षते।
śraddhā is viśvāsa in the vākyas of the guru and vedānta. Without a sense of great bhakti, prema and reverence in the teachings of the ācāryas and vedas, shraddhā in them does not come about. Thus, śraddhā requires bhakti.
*५ समाधानं नाम – लक्ष्ये ब्रह्मणि चित्तैकाग्र्यम्।
*५. लक्ष्ये ब्रह्मणि चित्तैकाग्र्यं समाधानम्।
पूर्वमधिकारिलक्षणे सगुणोपासनया विक्षेपदोषनिवृत्तिजन्यचित्तैकाग्रतोक्ता। अनयोरैकाग्र्ययोर्भेदस्तु – सगुणब्रह्मध्यानेन मूर्त्युपासनेन वा प्रथमं जायते। द्वितीयं तु निर्गुणब्रह्मण्यनवरतस्थित्या।
samādhāna is one-pointedness of mind in brahman.
When describing the adhikārī, it was said that saguṇa upāsanā results in cittaikāgratā that removes vikṣepa and doṣa. There is a difference between it and this one-pointedness. The first comes from dhyāna on saguṇa brahma, or through mūrti upāsana. However, samādhāna comes from remaining in nirguṇa brahma.
*६ उपरतिः नाम – *७ ससाधनानामैहिकामुष्मिकभोगहेतूनां लौकिकवैदिककर्मणां स्रक्चन्दनादिविषयाणां, विशेषतः *८ स्त्रीणां च परित्यागो हालाहलवत्।
uparati is leaving all causes of bhoga in this life or the next as poison; of laukika and vaidika karmas; of garlands, candana etc; and especially of women.
*६. त्यक्तेऽपि विषये कथञ्चित्पुनः प्राप्ते पूर्वानुभवजनितवासनावशात् पुनरिच्छानुदयो वैराग्यस्य फलीभूतावस्था उपरतिरित्युच्यते। अप्राप्ते विषये दोषदृष्टिपूर्वकमिच्छानुदयो वैराग्यमिति भेदः।
uparati is the final fruit of vairāgya. When an object is not obtained, but there is a lack of desire towards it due to knowing it’s fault, it is called vairāgya. When however, the object has been renounced, and has since been obtained, and yet there is no desire for it, this is called uparati.
*७. पत्नीपुत्रवित्तवयोऽवस्थाजात्यभिमानादिकं कर्मसाधनम्।
*८. ननु विषयग्रहणेनैव स्त्रीरूपविषयस्य गृहीतत्वात् पुनरुक्तिरनर्थिकेति चेन्न। अतीतानन्तकोटिजन्मार्जितस्त्रीविषयोपभोगजनितवासनायाः तीव्रतरत्वात् शब्दस्पर्शरूपरसगन्धमैथुनात्मकषडिन्द्रियविषयाणामेकत्रैव स्त्रीपिण्डे संभवात् सर्वेभ्योऽपि विषयेभ्यः संसारार्णवनिमज्जनहेतुभूतेभ्यः स्त्रीव्यक्तेरेव प्रबलतरत्वात् सर्वानर्थमूलत्वाच्च स्त्रीरूपे विषयेऽतितरां वैरस्यं संपादनीयमित्यभिप्रायं द्योतयितुं पुनर्ग्रहणम्। तथा चोक्तम् –
“यस्य स्त्री तस्य भोगेच्छा, निःस्त्रीकस्य क्व भोगभूः।
स्त्रियं त्यक्त्वा जगत् त्यक्तं जगत् त्यक्त्वा सुखी भवेत्।”
“लिन्दु माभिगां, लिन्दु माभिगाम्” (छा.8.14.1)
“सर्वेन्द्रियाणां जरयन्ति तेजः” (क.1.1.26.) इति।
“अथ यद् यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्” (छा.8.5.1)
इत्यादिना बहुप्रपञ्चेन केवलब्रह्मचर्यस्य स्त्रीविषयपरित्यागलक्षणस्य वैराग्यस्य (मैथुनासमाचारस्य) दहराद्युपासनान्तरप्राप्यब्रह्मलोकावाप्तिसाधनत्वमुच्यते।
*९ तितिक्षा नाम – शीतोष्णक्षुत्पिपासादिद्वन्द्वसहनम्।
*९. वेदान्तश्रवणादिप्रसङ्गे सति तत्प्रतिबन्धकशीतोष्णक्षुत्पिपासादिद्वन्द्वान्तरायसहनरूपा तितिक्षा कार्या। अन्यथा क्षुत्पिपासादिप्रतीकारे व्यापृतचित्तस्य श्रवणादिप्रवृत्त्यसंभवः स्यात्। अतोऽवश्यं तितिक्षा संपादनीया।
titikṣā is bearing pairs such as cold and heat, hunger and thirst etc. In the context of vedānta śravaṇa, these can be obstacles. Otherwise, when they occur, the mind turns away from śravaṇa. Thus, titikṣā must be developed.
शमादीनां षण्णामपि *१० साधनानामेकसाधनत्वेनैवाभिप्रेतत्वात् विवेकादीनि चत्वार्येव साधनानि। न नवेति ज्ञेयम्।
Since śama and the six are taken to be a single sādhana, viveka etc are counted as four sādhanas, and not as nine.
*१०. “आत्मानं रथिनं विद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च॥ (क.1.3.3)
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः॥ (क.1.3.4)
यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः॥ (क.1.3.5)
यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः॥ (क.1.3.6)
यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ (क.1.3.7)
यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते ॥ ( क.1.3.8)
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान् नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्॥” (क.1.3.9)
शरीररूपरथस्येन्द्रियाणि हयाः, मनः प्रग्रहः, बुद्धिः सारथिः, आत्मा यजमानो रथी। यस्य यजमानस्य बुद्धिरूपसारथिर्विज्ञानवान् कुशलस्तस्येन्द्रियाश्वाः सन्मार्गे गत्वा यजमानं मोक्षं गमयेयुः। विपरीतबुद्धिसारथ्युपेतस्तु यजमानोऽदान्तेन्द्रियाश्वैर्निषिद्धमार्गेण नरकं प्राप्नुयात्। तस्मान्मुमुक्षुर्बुद्धिसारथिं स्वेच्छाचारात् प्रतिनिवर्तयन् इन्द्रियाश्वान् सन्मार्गे प्रवर्तयेत्। अत्र बुद्धिसारथेः स्ववशतापादनं शमः। इन्द्रियाश्ववशीकरणं दमः इति। अन्यत्राप्युक्तम् –
“मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
बन्धाय विषयासक्तं मुक्तयै निर्विषयं स्मृतम्॥” (प.ब्र.यो.117)
“चित्तं कारणमर्थानां तस्मिन् सति जगत्त्रयम्।
तस्मिन् क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः॥” इति।
सारथेरश्वानां च यथा परस्पराधीनता, तथा बुद्धेरिन्द्रियाणां च परस्पराधीनता वर्तते। विचित्रानेकमणिघटितमालाया यथा चामीकरत्वेनैकत्वव्यवहारस्तथा षण्णामपि विलक्षणानां शमादीनां परस्परापेक्षणेनैकसाधनत्वव्यवहारः।
शमादीनां परस्परसहायता चेत्थम् –
(1) मनोवशीकरणमन्तरेण इन्द्रियस्य जयो न संभवतीति दमः शममपेक्षते।
(2) बहिर्मुखस्य मनसो दारपुत्रवित्ताद्यासक्तस्य वेदान्तशास्त्रगुरुप्रभृतिषु पूर्णश्रद्धाऽसंभवाच्छ्रद्धा शममपेक्षते।
(3) अन्तरा मनोनिरोधं ब्रह्मणि चित्तैकाग्र्यासंभवात् समाधानं शममपेक्षते।
(4) क्षीरादिना संवर्धितो मार्जारः पाशाद्यवशीकृतत्वान्मूषकदर्शनमात्रेण यथा तद्ग्रहणाय धावेदेवं विषयेभ्य उपरतमपि मनो निरोधादिभिरवशीकृतं चेत्, संप्राप्ते विषये प्राचीनवासनावेगाद्धावेदित्यतः उपरतिः शममपेक्षते।
(5) अन्तर्मुखीभूतमनसैव शीतोष्णादिद्वन्द्वसहनं कर्तुं शक्यते, न तु बहिर्मुखीभूतमनसेत्यतस्तितिक्षापि शममपेक्षते। इति शमः दमादीनां पञ्चानां सहकारी।
(6) विना त्विन्द्रियदमेन मनो न जीयत इत्यतः शमोऽपि दममाकाङ्क्षते।
(7) रूपरसादिविषयासक्तस्य गुरुवेदान्तवाक्यश्रद्धा न जायेतेत्यतः श्रद्धापि दममाकाङ्क्षते।
(8) इन्द्रियनिग्रहमन्तरा चैकाग्र्यं न मनसो जायेतेत्यतः समाधानमपि . दममाकाङ्क्षते।
(9) ऋते त्विन्द्रियदमेनानुभूतविषयकवासनावेगवशात् दृष्टेष्टविषयेषु पुनःपुनरिच्छा जायेतेत्यत उपरतिरपि दममाकाङ्क्षते।
(10) अन्तरेण त्विन्द्रियदमेन विषयसान्निध्यवशात् क्षुभितं सन्मनः शीतोष्णादिद्वन्द्वं न विषहेतेत्यतस्तितिक्षापि दममाकाङ्क्षते। इति दमः शमादीनां पञ्चानां सहकारी।
(11) श्रीसद्गुरुवेदान्तशास्त्रेषु तीव्रतरश्रद्धाभावे श्रवणादौ श्रवणोपयोगिशमादिसाधने च प्रवृत्तिर्न जायेतेत्यतः शमादयोऽपि श्रद्धामपेक्षन्ते।
(12) अन्तरेण चित्तैकाग्र्यं शमादिसाधनानि न सिद्धयेरन्नित्यतः शमादयः समाधानमपेक्षन्ते।
(13) विषयेभ्यश्चेत् स्यादनुपरतं चित्तं तदा शमादयो न सिद्धयेरन्नित्यतः शमादयः उपरतिमपेक्षन्ते।
(14) शीतोष्णक्षुत्पिपासालाभालाभादिविचित्रविषयानुभवजनिततापत्रयासहं चेत् स्याच्चित्तं, मनसः शमः, इन्द्रियाणां दमः, गुरुवेदान्तवाक्ये श्रद्धा, चित्तैकाग्र्यं प्राप्तोपभोगयोग्यधनादिविषयेभ्य उपरतिश्चेत्यादिसाधनानि न सिद्धयेरन्नित्यतः शमादयस्तितिक्षामपेक्षन्ते।
इत्थं परस्परसापेक्षत्वात् शमादिषट्कमपि मिलित्वैकमेव साधनमित्युच्यते॥