ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्


आवर्तः १८ – वैराग्यम्

दोषदृष्ट्या आब्रह्मलोकाद्विपरिवर्तमानेषु भोगेष्वनादररूपोपेक्षैव *१ वैराग्यम् इत्युच्यते ब्रह्मपारगैः।

Vairāgya is to have no attachment to the variety of bhogas starting from brahma loka, by seeing their defects. This is what those who have attained brahman declare.

*१. वैराग्यं नाम – सर्वविषयतित्याजयिषा, इच्छासामान्याभावो वा। (1) यतमानं, (2) व्यतिरेकः, (3) एकेन्द्रियं, (4) वशीकरणं चेति तच्चतुर्विधम्।

(1) यतमानं नाम मन्दविवेकः।

(2) व्यतिरेको नाम – नकुलो यथा ** नकुललतामाश्रित्य सर्पेण युद्ध्यते तथा सत्सङ्गेन दुर्गुणपरिहारे सद्गुणसंपादने चोत्साहसंपत्तिः।

** नकुलः सर्पेण दष्टः काञ्चिदौषधलतां सेवयित्वा पुनरपि युद्धाय सन्नद्धो भवति। एवमेव विषयानन्देन दष्टः पुनरपि सत्सङ्गेन व्यतिरेकवैराग्यं संपाद्यते। अयं वेदान्तिनां समयः।

(3) एकेन्द्रियं नाम – विषयेभ्यः इन्द्रियनिग्रह एव।

(4) वशीकरणं नाम सर्वतो मनोनिग्रह एव। तदपि त्रिविधम् – (1) मन्दं, (2) तीव्रं, (3) तीव्रतरं चेति।

(4.1) पुत्रवित्तकलत्रादिहानिकालिकवैराग्योपेतचित्तवृत्तिः मन्दम्

(4.2) ऐहिकपुत्रादिविषयोपभोगजसुखेऽस्पृहा तीव्रम्

(4.3) सातिशयत्वपुनरावृत्त्याद्यनेकदोषावमर्शेन लोकान्तरभोगेष्वखिलेष्वपीच्छानुदयः तीव्रतरम्

तत्रापरोक्षज्ञानान्तरङ्गसाधनं तु तीव्रतरवशीकरणाख्यवैराग्यमेव। अतोऽतिप्रयत्नेन संपादनीयं तन्मुमुक्षुभिः।

There are four kinds of vairāgya – yatamāna, vyatireka, ekendriya and vaśīkaraṇa. yatamāna is weak as is just the saṅkalpa. vyatireka is just the initial utsāha born of satsaṅga – to obtain sadguṇa and remove durguṇas. ekendriya is withdrawing the senses, and vaśīkaraṇa is withdrawing the mind.

vaśīkaraṇa is threefold – weak, due to circumstances such as death. tīvra is lack of desires in the bhogas of this world. tīvratara is bhogas in other worlds, knowing completely that doṣas are strong and will recur. .

aparokṣa jñāna requires tīvra vaśīkaraṇa vairāgya. Thus, the mumukṣus must cultivate it with strong effort.