ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्


आवर्तः १७ – नित्यानित्यवस्तुविवेकः

नित्यानित्यवस्तुविवेकः – चिन्मात्र आत्मा नित्यः (सत्यः), नाशाप्रतियोगी, क्रियाशून्यः। तद्विलक्षणोऽनात्मा तु दृश्यः प्रपञ्चो नाशप्रतियोगी, अनित्यः (असत्यः), क्रियासहितश्चेति विवेचनमेव *२ विवेकः

उत्तरेषां त्रयाणामपि साधनानामयं हेतुः, एतत्स्थित्यधीनोत्पत्तिकत्वाद्वैराग्यादीनां त्रयाणाम्। अतो निमित्ताभावे नैमित्तिकाभावादवश्यमेवादौ विवेकः संपादनीयः।

What is the vicāra between nitya and nitya? Nitya is consciousness alone, the ātma, the true, that is which is never destroyed, and is devoid of action. Different from it is anātma (non-ātma), dr̥śya prapañca (perceptible world), the perishable, non-eternal, and with action. This contemplation is viveka.

This sādhana (viveka) is the cause for the other three sādhanas; since they come about only when viveka is present, since all three are dependent on it. Thus, viveka must be cultivated.

*२. हंसस्य नीरक्षीरविवेचनवत् आत्मानात्मनोः दृढतरवेदान्तार्थविचारेण स्वरूपविवेचनं विवेकः। ईदृशविवेकेन जगन्मिथ्यात्वविषयकपरोक्षज्ञानमात्रं जायते, नापरोक्षज्ञानम्। तस्मात् साधनान्तरवतापि मुमुक्षुणा भाव्यम्।

It is not sufficient to have viveka alone, since it results in parokṣa jñāna (indirect knowledge), and not in aparokṣa jñāna (direct knowledge). Thus, the mumukṣu must have the other sādhanas as well.

ननु वादिविजिगीषूणामपि पण्डितानां “आत्मा नित्यः, ततोऽन्यो देहादिप्रपञ्चरूपानात्मा ऽनित्यः” इति भेदज्ञानमस्ति। कस्मात् तद्भेदज्ञानं तेषां वैराग्यादित्रयमुत्तरं साधनजातं न जनयतीति चेन्न। तेषां शास्त्राभ्यासवशाद्विवेके सत्यपि, निष्कामकर्मोपासनासाध्यचित्तशुद्ध्यभावेन मलिनविक्षिप्तान्तःकरणत्वात्। यथोषरभूमौ कदलीवृक्षो न प्ररोहति उर्वरावनौ तूत्तरोत्तरमभिवर्धते, तथा शुद्धान्तःकरणे मलविक्षेपाभावाद्विवेको वैराग्यादिसाधनान्तराणि जनयेत्, नान्यथा। तस्मान्मुमुक्षुभिश्चित्तशुद्धिपूर्वकं विवेकादि संपादनीयम्।

If it is asked – many paṇḍits know the different between nity and nitya, but they do not have vairāgya etc. Why is this so?

Though they have viveka, their minds have mala and vikṣepa. Just as a banana tree does not grow in a desert, but grows in fertile ground; so also viveka results in vairagya etc in a mind undisturbed by mala and vikṣepa … and not otherwise. Thus, the mumukṣu must cultivate viveka along with citta śuddhi.