कुलालस्य चक्रं दण्डेन प्रेरिते सति, पुनःप्रेरणाभावेऽपि वेगेन भ्रमति। एवमेव बाधिते सति प्रारब्धकर्मणा देहादिप्रपञ्चस्य प्रतीतिः भवति। इयमेव बाधितानुवृत्तिः।