दृष्टान्तः – महाभारतयुद्धे द्रोणाचार्ये मरणं गते सति, अश्वत्थामादिकेन सह युद्धं अनुवृत्तम्। तदा सत्यसङ्कल्पेन श्रीकृष्णेन सङ्कल्पः कृतः – “युद्धस्य समाप्तिपर्यन्तं रथाश्वादिकं सुरक्षितं भवति” इति। एवं सङ्कल्पं विधाय युद्धभूमौ प्रविष्टः। तदा अश्वत्थामादिभिः ब्रह्मास्त्रं (अग्न्यस्त्रं) विहितम्। अनेन तत्क्षणे एव अर्जुनस्य रथः अश्वाश्च भस्मीभूताः। तथापि श्रीकृष्णपरमात्मरूपसारथेः सङ्कल्पबलेन सुरक्षिताः। समाप्ते युद्धे भस्मीभूताः जाताः। दार्ष्टान्तः – रथः स्थूलदेहरूपः। द्वे चक्रे पुण्यपापरूपे। ध्वजः त्रिगुणात्मकः। बन्धनानि पञ्च प्राणाः। अश्वाः दशेन्द्रियाणि। मार्गः शुभाशुभशब्दादिपञ्चविषयरूपः। कशी मनोरुपा। सारथिः बुद्धि(श्रीकृष्ण)रूपः। सङ्कल्पः प्रारब्धकर्मरूपः। आसनं अहङ्काररूपम्। रथी (अर्जुनः) आत्मरूपः। शस्त्रं वैराग्यादिशाधनरूपम्। सः रथं आरुह्य सत्सङ्गरूपां रणभूमिं गच्छति। गुरुरूपाश्वत्थामः महावाक्योपदेशरूपं ब्रह्मास्त्रं प्रहिणोति। ज्ञानरूपाग्नि-उदयक्षणे देहादिप्रपञ्चरूपरथादयः बाध्यते। तथापि श्रीकृष्णरूपसारथिरूपबुद्धेः प्रारब्धकर्मरूपसङ्कल्पबलेन देहादीनां नाशो न भवति। किन्तु तदनन्तरं अपि देहादीनां प्रतीतिः भवति। एवं बाधितानुवृत्तिः।