दार्ष्टान्तः – जीवेश्वरयोः देशकालादीनां त्यागं कृत्वा द्वयोः अनुगतस्य चेतनमात्रब्रह्मणः आत्मना ऐक्यं अस्ति। “ब्रहैवाहं”, “अहं ब्रह्मास्मि” इति दृढः निश्चयः कार्यः। इदमेव तत्त्वज्ञानम्। अनया सर्वदुःखनिवृत्तिरूपः परमानन्दप्राप्तिरूपः मोक्षः भवति। ॥इति श्रीविचारचन्द्रोदये तत्त्वमसिमहावाक्यगत-तत्त्वंपदार्थैक्य-निरूपणं नाम एकादशी कला समाप्ता॥