कश्चित् काशिकाराजः गजारूढः स्वैरं गच्छति। यात्रिकः कश्चित् तं स्पष्टं पश्यति। पश्चात् स्वदेशः प्रति निवृत्तः सः अपरं कञ्चित् सिंहासने विराजमानं अपश्यत्। पूर्वभूतः राजा चीरवस्त्रधारी भस्मधारी दण्डकमण्डलुभ्यां पादुकां विया तीर्थयात्रार्थं गतः। स च ग्रामं गतः यत्र तं दृष्टवन्तः पुनरपि तं दृष्ट्वा सहयात्रिणं प्रत्याह – मया काशिकाराजः दृष्टः “सोऽयम्” इति। तदा सहयात्री आक्षिपति – “सः देशः अपरः, अयं देशः अपरः। तत्कालः (अवस्था) अपरः, अयं कालः अपरः। तद्वस्तु (सामग्री) अपरं, इदं वस्तु अपरम्। तदभिमानः अपरः, अयमभिमानः अपरः। तत्कार्यं अपरं, एतत्कार्यं अपरम्। तद्धर्मः अपरः, एतद्धर्मः अपरः। अतः तत्काशिकाराजस्य एतद्भिक्षुकस्य ऐक्यं कथं संभवति?” तदा प्रथमः यात्रिकः प्रत्युवाच – “तस्य देशस्य कालस्य वस्तुनः अभिमानस्य कार्यस्य धर्मस्य त्यागं कृत्वा द्वयोः पुरुषयोः अनुगतः (अनुस्यूतः) पुरुषभावः एक एव” इति।