“आकाशस्य अधिष्ठानं किं” इति विचारिते सति “नाहं जाने” इति वृत्तेः आश्रयः अज्ञानं प्रतीयते। अज्ञानस्य कार्यं आकाशः। अज्ञानं आकाशस्य अपेक्षया सूक्ष्मं व्यापकं च। आकाशः त्वचा अग्राह्यः। परन्तु मनसा विषयीक्रियते। अज्ञानं नमसः अग्राह्यम्। आकाशस्य अपेक्षया अनन्तगुणाधिक्यं अज्ञानस्य इति शास्त्रप्रसिद्धिः। एवं अज्ञानं आकाशस्य अपक्षया सूक्ष्मं व्यापकं च।