अग्नेः जननमरणं वाय्वधीनम्। अतः तेजः वायुकार्यम्। तेजसः अपेक्षया वायुः सूक्ष्मः व्यापकश्च। सूर्यादिप्रकाशः घटादिपात्रैः अनवरुद्धः। परन्तु नेत्रस्य दृश्यम्। वायुस्तु नेत्रागोचरः। पुराणेषु अग्नेः दशगुणाधिक्यदेशवर्तित्वं वायोः। इति अग्नेः अपेक्षया वायुः सूक्ष्मः व्यापकश्च।