समुद्रजलस्य फेनः लवणं च कार्यं भवति। पृथिवी जलस्य कार्यम्। पृथिव्याः अपेक्षया जलं सूक्ष्मं व्यापकम्। वस्त्रेण पाषाणादिके बद्धे सति न स्रवति, जलं तु वस्त्रात् स्रवति। भूमौ खनने कृते जलोपलब्धिः। पुराणेषु पृथिव्याः दशगुणाधिक्यदेशवर्तित्वं जलस्य। एवं पृथिव्याः अपेक्षया जलं सूक्ष्मं व्यापकं च।