ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

10.195   सामान्यचैतन्यं ज्ञातुं दृष्टान्तः कः?

दृष्टान्तः –एका एव रज्जुः अनेकेषां पुरुषाणां दण्डः इति सर्पः ईति भूच्छिद्रं इति जलधारा इति वा प्रत्येकं भ्रान्तिः भवति। अस्याः भ्रान्त्याः अंशद्वयं भवति। प्रथमः सामान्य‘इदं’अंशः, अपरः सर्पादिविशेषांशः। अयं दण्डः, अयं सर्पः, इदं भूच्छिद्रं, इयं जलधारा इत्यत्र सर्पादिविशेषांशभूते सामान्यः इदमंशः सर्वत्र व्यापकः रज्जुस्वरूपभूतः। सः सामान्यांशः भ्रान्तिकाले भासते, भ्रान्तिनिवृत्तिकाले ‘अयं रज्जुः’ इति च भासते। एवं सामान्येदमंशः अव्यभिचारी सत्यो भवति। परस्परव्यभिचारी सर्पादिविशेषांशः कल्पितः।
दार्ष्टान्तः – सर्वस्मिन्नपि पदार्थे पञ्चांशाः भवन्ति – अस्ति, भाति, प्रियं, नाम, रूपं चेति। घटोऽस्ति इति अस्ति (सद्रूपम्)। घटो भाति इति भाति (चिद्रूपम्)। घटः प्रियः इति जलाहरणयोग्यः घटः प्रियो भवति। सर्पसिंहादयः अपि सर्पस्त्रीसिंहस्त्रीणां प्रियो भवन्ति। घटः इति द्व्यक्षरात्मकं नाम। स्थूलगोलोदरवत् घटस्य रूपं (आकारः)। एवं सर्वभूतानि घटादिभौतिकानि च ज्ञेयानि। देहमुद्दिश्यापि पञ्चांशाः भवन्ति। अहं अस्मि इति अस्ति (सद्रूपम्)। अहं भामि जाने इति भाति। अहं भवतां प्रियः इति प्रियो भवामि। देह-इन्द्रिय-प्राण-मन-बुद्धि-चित्त-अहङ्कार-अज्ञान-तद्धर्माश्च नामानि। यथायोग्यः आकारः रूपम्। अन्तरपदार्थानां पञ्चांशाः एवं ज्ञेयाः। एतेषां सर्वेषां नामरूपयोः त्यागेन – पृथिवी अस्ति, भाति, वसतिस्थान्दातृत्वात् प्रिया, त्र्यक्षरनाम्नी, गन्धगुणयुक्तरूपा। पृथिव्याः नामरूपयोः त्यागेन – जलं अस्ति, भाति, तृष्णाशाम्यत्वात् प्रियं, द्वक्षरनाम, शीतशर्पगुणयुक्तरूपम्। जलस्य नामरूपयोः त्यागेन – तेजः अस्ति, भाति, शीतस्य अन्धकारस्य च दूरीकरत्वेन प्रियं, द्व्यक्षरनाम, उष्णस्पर्शगुणयुक्तरूपम्। तेजसः नामरूपयोः त्यागेन – वायुरस्ति, भाति, स्वेददूरीकरणत्वात् प्रियं, द्व्यक्षरनाम, रूपरहितस्पर्शगुनयुक्तरूपम्। वायोः नामरूपयोः त्यागेन – आकशोऽस्ति, भाति, अन्येषां अवकाशदानत्वात् प्रियः, त्र्यक्षरनामा, शब्दगुणयुक्तरूपः। आकाशस्य नामरूपयोः त्यागेन – मत्पृष्ठस्थं अज्ञातं इति अज्ञानं अस्ति, भाति, प्रपञ्चद्वारा जीवननिर्वाहकत्वात् अज्ञानां प्रियः, त्र्यक्षरनाम, आवरणविक्षेपशक्तिसहितानाद्यनिर्वचनीय-भावरूपम्। अज्ञानस्य नामरूपत्यागेन – किमपि नास्ति इति प्रतीयमानः सर्ववस्तूनां अभावः अस्ति, भाति, शून्यध्यानयोगिनां प्रियं, त्र्यक्षरनाम, सर्ववस्त्वभावरूपं (निषेधमुखप्रतीतिविषयभूतम्)। अभावस्य नामरूपाभ्यां त्यागेन – अभावत्वस्य स्वरूपभूतं अधिष्ठानं सद्वस्तु-अवशेषः अस्ति, अभावस्य अभावताप्रकाशकः चित्, दुःखभिन्नः आनन्दः। एवं सर्वनामरूपानुगताव्यभिचारिनामरूपाधिष्ठानं ब्रह्म सामान्यचैतन्यं अस्ति इति सत्यम्। घटस्य नानरूपे न पटस्य, पटस्य नामरूपे न घटस्य इत्यनेन परस्परव्यभिचारिणी नामरूपे मिथ्या। इति सामान्यचैतन्यं बोद्धुं दृष्टान्तः समाप्तः।