ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

10.195.2   सामान्यचैतन्यस्य प्रकाश्यं उदाहरत

सुषुप्तेः मूर्च्छायाः समाधेश्च प्रकाशकः सामान्यचैतन्यम्। अहं घटं जानामी इति प्रमाता। प्रमाणप्रमेयत्रिपुटीप्रकाशकः साक्षी सामान्यचैतन्यम्। जाग्रदाद्यवस्थायासन्धेः प्रकाशकः सामान्यचैतन्यम्। वृत्तिसन्धेः प्रकाशकः सामान्यचैतन्यम्। अङ्गुष्ठाग्रभागस्य प्रकाशकः सामान्यचैतन्यम्। देशान्तरगतस्याः वृत्तेः मध्यभागस्य प्रकाशकः सामान्यचैतन्यम्। सूयचन्द्राकारवृत्तेः मध्यभागस्य प्रकाशकः सामान्यचैतन्यम्। अहं मेरुं न जाने इत्यस्य अज्ञानविशिष्टमेरोः प्रकाशकः सामान्यचैतन्यम्।