जाग्रति स्वप्ने सुषुप्तौ अहं ज्ञाता। प्रातः मध्याह्ने सायं अहं ज्ञाता। दिवा रात्रौ पक्षे अहं ज्ञाता। मासे ऋतौ वर्षे अहं ज्ञाता। बाल्ये यौवने वार्धक्ये अहं ज्ञाता। पूर्वदेहे वर्तमानदेहे भविष्यद्देहे अहं ज्ञाता। युगे मनौ कपे अहं ज्ञाता। भूतकाले भविष्ये वर्तमाने अहं ज्ञाता। एवं सर्वेषु कालेषु अहं ज्ञाता। अतः अहं चित् इति ज्ञेयम्।