ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

7.150   उपद्रष्टा आत्मा कथम्?

यज्ञशालायां यज्ञकार्यं कुर्वाणाः पञ्चदश ऋत्विजो भवन्ति। षोडशः यजमानः। सप्तदशः यजमानस्य धर्मपत्नी। अष्टादशः उपद्रष्टा समीपे उपविश्य पश्यति। न सः किमपि कार्यं करोति। स्थूलदेहरूपयज्ञशालायां पञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि, पञ्चप्राणाः इत्याहत्य पञ्चदश ऋत्विजो भवन्ति। षोडशः मनोरूपः यजमानः। सप्तदशः बुद्धिरूपः यजमानस्य धर्मपत्नी। अष्टादशः सर्वं इदंग्रहणपूर्वकं कार्यं करोति, तदुपान्तिके सर्वस्य समीपवर्ती ज्ञाता आत्मा उपद्रष्टा।