ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

7.148   साक्षी आत्मा कथम्?

लोकव्यवहारे – यः उदासीनः रागद्वेषरहितः, यः समीपवर्ती, यः चेतनः, सः साक्षी। आत्मा देहादिभ्यः उदासीनः, समीपवर्ती, चेतनं अजडश्च प्रकाशश्च। अतः आत्मा साक्षी। अथवा अन्तःकरणरूपोपाधियुक्तः चेतनः साक्षी। अथवा अन्तःकरणे अन्तःकरणवृत्तौ च वर्तमानं चेतनमात्रं साक्षी इति कथ्यते। एवं आत्मा साक्षी।