यः दीपवत् इतरापेक्षं अन्तरा स्वस्य प्रकाशकः, यश्च सर्वस्य प्रकाशकः, सः स्वयंप्रकाशः। अयं आत्मा एव। अतः आत्मा स्वयंप्रकाशः। अथवा – यः सदा अपरोक्षरूपः, यश्च न कस्यापि ज्ञानस्य विषयः, सः स्वयंप्रकाशः। आत्मा सदा अपरोक्षरूपः, प्रकाशरूपः सन्नपि कस्यापि ज्ञानस्य विषयः (प्रकाश्यः) नास्ति। सः आत्मा स्वयंप्रकाशः।