आत्मा सच्चिदानन्दरूपः इति श्रुतियुक्त्यनुभवसिद्धम्। ब्रह्म उपनिषद्रूपशात्रेण सच्चिदानन्दरूपत्वेन निरूपितम्। अतः आत्मा ब्रह्मरूपः। अथवा – ब्रह्म व्यापकः। यस्य देशपरिच्छेदो नास्ति, सः व्यापकः। यदि आत्मा ब्रह्मभिन्नः, ब्रह्म अन्तवत् भवति। यस्य देशपरिच्छेदः, तस्य कालपरिच्छेदोऽपि भवति इति नियमः। यस्य देशपरिच्छेदो भवति, यस्य वा कालपरिच्छेदो भवति, सः अनित्यः। यस्मात् आत्मा अनित्यो भवेत्। तस्मात् आत्मा ब्रह्माभिन्नः। अपि च – यदि आत्मनः भिन्नं ब्रह्म, तर्हि ब्रह्म अनात्मा भवति। अनात्मा घटादिकः जडः। आत्मनः भिन्नं ब्रह्म जडं भवति। इदं च श्रुतिविरुद्धम्। अतः न आत्मनः भिन्नं ब्रह्म। ब्रह्मरूपः एव आत्मा।