ॐ गुरुपरमात्मने नमः

This is a very early draft, and has not been proofread.

6.139   आत्मनः अनात्मनश्च परस्परं अध्यासः कथं जायते?

सत् चित् आनन्दः अद्वैतश्च चत्वारि आत्मनः विशेषणानि। असत् जडं दुःखं द्वैतश्च चत्वारि अनात्मनः विशेषणानि। अनात्मनः दुःखं द्वैतं च आत्मनः आनन्दांशं अद्वैतांशं च तिरस्करोति। आत्मनि “अहं आनन्दरूपः अद्वैतः अस्मि” इति प्रतीतिः न भवति। किन्तु “अहं दुःखी ईश्वरादिभिः भिन्नोऽस्मि” इति प्रतीतिः भवति। आत्मनः सच्चिच्च द्वे विशेषणे अनात्मनः असत्तां जडतां च तिरस्कृत्य अनात्मनि अहङ्कारादिकं भवति। “असत् अस्ति। अभानं (जडरूपता) अस्ति” इति प्रतीतिः न भवति। किन्तु “विद्यते, भासते” इति प्रतीतिः भवति। एवं आत्मनः अनात्मनश्च परस्परं अध्यासो भवति। (ब्रह्मणः ईश्वरस्य च कूटस्थस्य जीवस्य परस्परं अध्यासो भवति, यश्च एकादशकलायां उच्यते) ॥इति विचारचन्द्रोदये प्रपञ्चमिथ्यात्ववर्णनं नाम षष्ठी कला समाप्ता॥