दृष्टान्तः – कनके कुण्डलस्य कार्यकारणभावभेदः भासते। सः कल्पितः। कनकेन पृथग्भूतं कुण्डलं न दृश्यते। अतः वस्तुतया अभेदः एव। कनकेन पृथग्भूतस्य कूण्डलस्य सत्ता एव नास्ति। दार्ष्टान्तः – ब्रह्मजगतोः कार्यकारणभावभेदो यो प्रतीयते, सः कल्पितः। विचारिते सति अस्तित्वभानत्वप्रियत्वभिन्नं नामरूपात्मकजगत्सत्यता नास्ति, किन्तु मिथ्या साध्यते। मिथ्यायां सिद्धायां अध्यस्तवस्तु अधिष्ठानभूतवस्तुना अभिन्नः। अतः ब्रह्मणा जगतः स्वरूपाभेदः। तस्मात् ब्रह्म जगतः अभिन्नः। एवं कनककुण्डलप्रतीतिदृष्टान्तेन ब्रह्मभिन्नजगतः सत्यताभ्रान्तिः निवर्त्यते।