दृष्टान्तः – मन्दान्धकारे पुरोवर्तिरज्जुं दृष्ट्वा नेत्रद्वारा अन्तःकरणवृत्तिः अन्धकारादिदोषेण रज्जोः आकारं न प्राप्नोति। अतः वृत्त्या रज्जोः आवरणभङ्गो न जायते। रज्जूपहितचैतन्याश्रिता तूलाविद्या क्षोभेन सर्परूपविकारं प्राप्नोति। दुग्धपरिणतदधिवत् सर्पः अविद्यापरिणामः। रज्ज्वा उपहितं चैतन्यं विवर्तकारणं, न तु परिणामिकारणम्। दार्ष्टान्तः – ब्रह्मचैतन्याश्रिता मूलाविद्या। सा प्रारब्धादिनिमित्तक्षोभेन जडरूपं चिदाभासरूपं प्रपञ्चरूपं च विकारं प्राप्नोति। प्रपञ्चः अविद्यायाः परिणामः। प्रपञ्चः अधिष्ठानभूतब्रह्मचैतन्यस्य विवर्तः न तु परिणामः। एवं रज्जौ कल्पितसर्पदृष्टान्तेन विकारभ्रान्तिः निवर्त्यते।