ॐ गुरुपरमात्मने नमः

6.125.4   आत्मनि आरोपिताः त्रयोंशाः

अविद्योपाधिना आत्मनि त्रयः अंशाः आरोपिताः – सामान्यांशः, विशेषांशः, कल्पितविशेषांश्चेति।

सद्रूपः (अस्तित्वरूपः) सामान्यांशः। “जाग्रदस्ति”, “स्वप्न अस्ति”, “सुषुप्तिरस्ति” इति आत्मनः सत्ता भ्रान्तिदशायामपि प्रतीयते। भ्रान्तौ निवृत्तायां सत्यां “अहं सदस्मि, अहं चिदस्मि, अहं आनन्दोऽस्मि, अहं परिपूर्णोऽस्मि, अहं असङ्गोऽस्मि, अहं नित्यमुक्तोऽस्मि, अहं ब्रह्मास्मि” इति आत्मनः सत्ता प्रतीयते। अतः सद्रूपः सामान्यांशः आधारः।

चेतनत्वं, आनन्दत्वं, असङ्गत्वं, अद्वितीयत्वं इत्यादीनि आत्मनः विशेषणानि विशेषांशः। भ्रान्तिदशायां अयं अंशः न प्रतीयते। अस्य प्रतीत्या भ्रान्ति निवर्त्यते। अयं विशेषांशः अधिष्ठानम्।

अवस्थात्रयरूपप्रपञ्चः कल्पितविशेषांशः। भ्रह्माभिन्नात्मा अज्ञानदशायां प्रतीयते। “ब्रह्मास्मि” इति आत्मज्ञाने सति आत्मनः व्यतिरिक्ततया सत् न प्रतीयते। अतः अवस्थात्रयरूपप्रपञ्चः कल्पितविशेषांशः भ्रान्तिः।

एवं अवस्थात्रयं आत्मनि मिथ्या प्रतीयते।

three parts superimposed on ātma

Due to the avidyā upādhi, the three parts are superimposed – the sāmānya, viśeṣa and kalpita viśeṣa parts.

sat (asti) is the sāmānya part. “jāgrat is”, “svapna is”, “suṣḥupti is” – thus ātma’s sattā is seen even during bhrānti. When bhrānti ceases, “I am sat”, “I am cit”, “I am ānanda”, “I am complete”, “I am asaṅga”, “I am ever free”, “I am brahma” – thus, ātma’s sattā is seen. Thus, sat is the sāmānya part called the ādhāra.

The qualities of consciousness, happiness, unattachedness, oneness etc are adjectives to ātma and are it’s viśeṣa part. During bhrānti, this part is not seen. When it is seen, the bhrānti ceases. Thus, this is the viśeṣa part called adhiṣthānam.

The prapañca composed of the three avasthās is the kalpita viśeṣa part. It is experienced when there is ajñāna of brahma-abhinna-ātma. When brahmāsmi is known through ātma jñāna, it is not experienced. Thus, the prapañca composed of the three avasthās is the kalpita viśeṣa part.

In this way, the avasthā traya is known as mithyā.