अधिष्ठानभूतात्मनि जाग्रत्स्वप्नसुषुप्त्यवस्थाः भवन्ति। आत्मनः अज्ञानात् एताः तिस्रो भ्रान्तयः भवन्ति। परस्परं अधिष्ठानभूतात्मना च सह व्यतिरेको भवति। आत्मनि अन्वयश्च भवति।
१. व्यतिरेको नाम अभावः व्यावृत्तिः वा
२. अन्वयो नाम भावः अनुवृत्तिः वा
जाग्रदवस्थायां स्वप्नावस्था सुषुप्त्यवस्था वा न भासते। स्वप्नावस्थानां जाग्रदवस्था सुषुप्त्यवस्था वा न भासते। सुषुप्त्यवस्थायां जाग्रदवस्था स्वप्नावस्था वा न भासते। एवं तिसृणां अवस्थानां परस्परव्यतिरेकः।
अधिष्ठाने तिसृणां अवस्थानां पारमार्थिकः अन्त्यन्ताभावः (नित्यनिवृत्तिः) भवति। अधिष्ठाने अवस्थात्रयस्य व्यतिरेको भवति।
आत्मा तिसृषु अवस्थासु अनुस्यूततया प्रकाशते। अतः आत्मनः अवस्थात्रये अन्वयो भवति।
siddhānta
The three avasthās – jāgrat, svapna and suṣḥupti – are seen in the adhiṣṭḥāna ātma. When the ātma is not known, these three bhrāntis take place. They have vyatireka between themselves and with the ātma. They also have anvaya with the ātma.
१. vyatireka is non-existence, or cessation
२. anvaya is existence, or continuation
In the jāgrat avasthā, neither the svapna or suṣḥupti avasthās shine. In the svapna avasthā, neither the jāgrat or suṣḥupti avasthā shine. In the suṣupti avasthā, neither the jāgrat or svapna avasthā shine. They are different from one another.
From a pāramārthika dr̥ṣṭi, the three avasthās have antyanta abhāva (they are nitya nivr̥tta). The adhiṣṭhāna is different from the three avasthās.
The ātma continues to shine in all three avasthās. Thus, there is anvaya of the ātma in the three avasthās.