ॐ गुरुपरमात्मने नमः

6.125.2   शुक्तिकायाः अंशत्रयम्

सामान्यांशः, विशेषांशः, कल्पितविशेषांशः इति शुक्तिकायाः त्रयोऽंशाः।

इदंता सामान्यांशः। अधिककालवर्ती यः प्रतीयते, सः सामान्यांशः। इदंता भ्रान्तिकाले प्रतीयते। इदंता भ्रान्त्याभावकालेऽपि प्रतीयते, यथा “इयं शुक्तिता” इत्यत्र इदंता। अयमेव सामान्यांशः आधारः इत्युच्यते।

नीलपृष्ठत्रिकोणयुक्ता शुक्तिः विशेषांशः। न्यूनकालवर्ती यः प्रतीयते, सः विशेषांशः। भ्रान्तिकाले नीलपृष्ठादिकं न प्रतीयते। प्रत्युत अस्य प्रतीत्या भ्रान्तिः निवर्त्यते। अयं विशेषांशः अधिष्ठानं इति कथ्यते।

रजतादिकं कल्पितविशेषांशः। अधिष्ठाने ज्ञाते, यः अंशः न प्रतीयते, सः कल्पितविशेषांशः। रजतादिकं शुक्तिकायाः अज्ञानदशायां प्रतीयते। शुक्तिकायाः ज्ञानदशायां नैव प्रतीयते। शुक्तिकायाः व्यभिचारी भवति। अयं कल्पितविशेषांशः भ्रान्तिः इति कथ्यते।

The three parts of the shell

The three parts of the shell are the sāmānya part, the viśeṣa part, and the kalpita-viśeṣa part.

‘this’-ness is the sāmānya part. It is seen for a longer time. It is seen during bhrānti, and is also seen when there is no bhrānti. For example, there is ‘this’-ness in “this is a shell”. The ‘this’-ness is also called the ādhāra.

The shell which is blue, triangular etc is the viśeṣa part. It is seen for a shorter time. During bhrānti, the blueness etc are not seen. Rather, knowing them removes the bhrānti. This viśeṣa amśa is also called the adhiṣṭhāna.

The silver is the kalpita viśeṣa part. When the adhiṣṭhāna is known, the part which is no longer seen is the kapita viśeṣa part. The silver etc are seen when there is ajṅāna of the shell. It is not seen when there is jñāna of the shell. It comes and goes on the shell. This kalpita viśeṣa part is called bhrānti.