यथा शुक्तिकायां रजतं, मेघः, पत्रं वा, इदं त्रयमपि शुक्तिकाज्ञानेन कल्पितं भासते। त् रयाणां परस्परं, शुक्तिकया च व्यतिरेको भवति। शुक्तिकायाः त्रयाणां वस्तूनां अन्वयो भवति।
यथा – शुक्तिकायां रजतं भासते, तदा मेघो पत्रं वा न भासते। यदा मेघो भासते, रजतं पत्रं वा न भासते। यदा पत्रं भासते, तदा रजतं मेघो वा न भासते। एवं त्रयाणां वस्तूनां परस्परं व्यतिरेकः।
शुक्क्तिकायाः आदौ मध्ये अन्ते च त्रयाणां वस्तूनां व्यवहारिकात्यन्ताभावः तथा पारमार्थिकात्यन्ताभावः अस्ति। इदमपि शुक्तौ त्रयाणां वस्तूनां व्यतिरेकः।
भ्रान्तिदशायां “इदं रजतं”, “अयं मेघः”, “इदं पत्रं” इत्येवं शुक्तिकायाः इदं-अंशः त्रिषु वस्तुषु अनुस्यूततया भासते। अयं त्रिषु वस्तुषु शुक्तिकायाः अन्वयः।
How do the three avasthās shine
In a shell, one may superimpose silver, or a cloud, or a paper out of ignorance. All three are different from the shell, and are not different from it.
When the silver appears on the shell, the cloud and paper do not shine. When the cloud shines, the silver and paper don’t shine. When the paper shines, the silver and silver do not shine. Thus all three are different from one another.
In the front, middle and back of the shell, there is atyantābhāva of all three vastus in both the vyāvahārika and pāramārthika sense.s Thus, all three are different from the shell.
During the bhrānti, we say “this is silver”, “this is cloud”, or “this is paper”. The “this” portion is present and continues to shine in all three. Here, there is anvaya of the shell in all three vastus.