स्थाणौ पुरुषः प्रतीयते। साक्षिणि स्वप्नः प्रतीयते। मरुभूमौ जलं प्रतीयते। आकाशे नैल्यं प्रतीयते। रज्जौ सर्पः प्रतीयते। जले अधोमुखपुरुषो वृक्षो वा प्रतीयते। दर्पणे नगरी प्रतीयते। इयं मिथ्या। एवं प्रपञ्चस्य मिथ्यात्वनिश्चयः कार्यः। अयं एव प्रपञ्चस्य बाधः इति। टी॰ १०७ –बाधो नाम मिथ्यात्वनिश्चयः। सः त्रिविधः – शास्त्रीयः, यौक्तिकः, अपरोक्षश्चेति।