दृष्टान्तः – समुद्रजलपूर्णः कश्चित् घटः। कण्ठं रज्ज्वा बध्वा समुद्रे लीयते। तदा घटजलं समुद्रजलैः एकीभवति। तदापि घटोपाधिना जलं भिन्नम्। रज्ज्वां उद्धृतायां सत्यां भेदः स्पष्टः। परन्तु जलसहितघटस्य समुद्रस्य च आधारभूतः आकाशः अभिन्नः। किन्तु त्रिषु कालेषु एकरसः एव।
दार्ष्टान्तः – अज्ञानरूपसमुद्रजलपूर्णः लिङ्गदेहरूपः घटः। सः अदृष्टरूपरज्ज्वा बद्धः सुषुप्तौ तदवान्तरभेदरूपमरणमूर्च्छाप्रलयकाले समष्ट्यज्ञानरूप-ईश्वरोपाधिमायायां लीनो भवति। व्यष्ट्यज्ञानरूपजीवस्य उपाधिः अविद्या। समष्ट्यज्ञानेन एकता भवति। तथापि लिङ्गशरीरसंस्काररूपोपाधिना भिन्नो भवति। तदनन्तरं अदृष्टरूपरज्ज्वा अन्तर्यामी प्रेरितो भवति। तदा भेदो भवति। परन्तु व्यष्ट्यज्ञानरूपजलसहितलिङ्गदेहरूपघटस्य, समष्ट्यज्ञानरूपसमुद्रस्य च आधारभूतस्य चिदाकाशस्य भेदो नास्ति। किन्तु त्रिषु कालेषु रसः एकः एव।
Fourth example of suṣupti
There is a ghaṭa filled with ocean water. A rope is tied around it’s neck, and it is lowered into the ocean. There, the pot-water becomes one with the ocean-water. Even so, the water in the water is distinguished by it’s ghaṭa-upādhi. When the rope is pulled up, the difference is clear. But, there is no difference between the ākāśa of the ghaṭa full of water and the samudra. The singular essence is the same at all times.
dārṣṭānta – The ghaṭa (liñga deha) is filled with ocean water (ajñāna). It is tied with a rope (karma) and in suṣupti and similar states (maraṇa, mūrcchā, and pralaya), it merges into the māyā (īśvara’s upādhi which is the nature of samaṣṭi ajñāna). The upādhi for the vyaṣṭi jīva is avidyā. It becomes one with the samaṣṭi ajñāna. Even so, it is different with respect to the upādhi (with is of the nature of saṁskāra of the liṅga śarīra). Then the antaryāmī is impelled by the rope (karma), and the bheda takes manifest. But, the liṅga deha pot filled with vyaṣṭi ajñāna water, and the ocean which is the samaṣṭi ajñāna have the same ādhāra cidākāśa. Their singular essence is the same at all times.