ॐ गुरुपरमात्मने नमः

5.123.3   सुषुप्त्यवस्थायाः तृतीयदृष्टान्तः

दृष्टान्तः –कश्चित् बालकः मित्रेण सह खेलति। स एव श्रमयुक्तः मात्रङ्के स्वपन् सुखं अनुभवति। पुनः मित्रेण आहूते सति बहिर्गत्वा खेलति।

दार्ष्टान्तः – कारणशरीरं अज्ञानरूपा माता। बुद्धिरूपः बालकः कर्मरूपमित्रेण सह जाग्रत्स्वप्नरूपबहिर्भूमौ व्यवहाररूपखेलं करोति। विक्षेपरूपश्रमो भवति। सुषुप्त्यवस्थारूपगृहे अज्ञानरूपायां मातरि लीनो भूत्वा ब्रह्मानन्दं अनुभवति। पुनः यदा कर्मरूपमित्रं आह्वयति, तदा जाग्रत्स्वप्नरूपबहिर्भूमौ व्यवहाररूपखेलं करोति।

Third example of suṣupti

A boy is playing with his friend. He gets tired and lays down in his mother’s lap and experiences sukha. When he is called by his friend, he once again goes out to play.

dārṣṭānta – the kāraṇa śarīra is the mother (ajñāna). The boy is the buddhi who goes out with his friend (karma) outside (jāgrat and svapna) to play (vyavahāra). He gets tired (vikṣepa). He comes back into his house (suṣupti) and las down on his mother (ajñāna) and enjoys brahmānanda. When his friend (karma) calls his again, then he goes out into the field of jāgrat and svapna to play (vyavahāra).