ॐ गुरुपरमात्मने नमः

3.80   नाहं कारणदेहः न मम इति कथं ज्ञेयम्

“अहं जाने”, “नाहं जाने” इति अन्तःकरणवृती। ज्ञातवस्तुसहितं अज्ञातवस्तुसहितं वा सोऽहं तद्द्रष्टा। अतः नाहं कारणदेहः न वा तन्मम धर्मः। इदं अज्ञानस्य। अहं तद्द्रष्टा घटद्रष्टृवत् तद्विलक्षणः। इति ज्ञेयम्।

कारणदेहः अज्ञानं त्वमेव। ‘अज्ञानस्य अस्ति’ इत्यत्र यथा राहुरेव राहोः शिरः इति व्यपदिश्यते, तथा अज्ञानस्य इति अज्ञानं एव व्यपदिश्यते।

एवमहं कारणदेहस्य द्रष्टा।

॥इति विचारचन्द्रोदये देहत्रयद्रष्टृवर्णनं नाम तृतीयकला समाप्ता॥

how should I know that I am not the causal body

“I know” and “I don’t know” are both vr̥ttis of the antaḥkaraṇa. I am the draṣṭā (seer) whether the vastu is known or unknown. Thus, I am not the kāraṇa deha, nor is it mine. It belongs to ajñāna. I am it’s seer, different from it.

You are the kāraṇa deha. (?) When we say that it belongs to ajñāna, it is like saying ‘It is rāhu’s head’, which is rāhu alone. Thus, when it belongs to ajñāna, it too is ajñāna alone.

Thus, I am the witness of the kāraṇa deha.