ॐ गुरुपरमात्मने नमः

अथ द्वितीयवर्णकेऽनुबन्धचतुष्टयमुच्यते। विषयः प्रयोजनं संबन्धोऽधिकारी चेत्यनुबन्धचतुष्टयम्। अस्य वेदान्तशास्त्रस्य ब्रह्मैव विषयः। मोक्ष एव प्रयोजनम्। प्रतिपाद्यप्रतिपादकभावो बोध्यबोधकभावो वा संबन्धः।

साधनचतुष्टयसंपन्नोऽधिकारी। यथा बृहस्पतिसवने ब्राह्मण एव, राजसूये क्षत्रिय एव, तथा वेदान्तशास्त्रे साधनचतुष्टयसंपन्न एवाधिकारी।

नित्यानित्यवस्तुविवेक इहामुत्रार्थफलभोगविरागः शमादिषट्कं मुमुक्षुत्वं चेति साधनचतुष्टयम्। ‘ब्रह्मैव नित्यम्, जगदनित्यम्’ इति श्रुतिस्मृतिपुराणादिना स्वयमेव जायमानं ज्ञानं नित्यानित्यवस्तुविवेकः। ‘इह स्रक्चन्दनादिविषयभोगो ऽमुत्राप्सरःस्त्रीविषयादिभोगश्चेत्युभयमप्यनित्यम्’ इति श्ववान्ताशनमूत्रपुरीषादिवत् तत्र वैरस्यमिहामुत्रार्थफलभोगविरागः। शमदमोपरतितितिक्षासमाधानश्रद्धा इति शमादिषट्कम्। शमो नाम श्रवणादिव्यतिरिक्तेभ्यो निवर्त्यात्मन्येव श्रवणादिविषये मनसः स्थापनम्। दमो नाम ज्ञानकर्मेन्द्रियनिग्रहः। उपरतिर्नाम संन्यासो निष्कामकर्मानुष्ठानं व्यवहारलोपो वा। तितिक्षा नाम प्रारब्धागतशीतोष्णादि सहनम्। समाधानं नाम श्रवणाद्यनुकूलविषये मनसः समाधिः। श्रद्धा नाम गुरुवेदान्तवाक्यविश्वासः। इति शमादिषट्कम्।

गृहे दह्यमाने तत्रस्थो दह्यमानः पुरुषो यथा कलत्रपुत्रादिकं परित्यज्य स्वतापोपशमनार्थमेव बहिर्निर्गत्य तापोपशमनं कर्तुमिच्छति, एवं सांसारिकतापोपशमनं संपादयितुं त्यक्तसर्वैषणस्य ब्रह्मतादात्म्यभावे मोक्षे तीव्रेच्छा मुमुक्षा।

लोके केषाञ्चिन्नित्यानित्यवस्तुविवेके सत्यपि वैराग्यस्यादर्शनादिहामुत्रार्थफलभोगविरागेणापि भवितव्यमित्युक्तम्। तदुभयसत्त्वेऽपि केषाञ्चिदृषीश्वराणां कोपतापादिदर्शनाच्छमादिनापि भवितव्यमित्युक्तम्। एतत्त्रितये सत्यपि केषाञ्चिद्भक्त्येश्वरोपासकानां ज्ञानाधिकारादर्शनान्मुमुक्षयापि भवितव्यम् ॥

एवंरूपोऽधिकार्युपहारसमित्पाणिः सन् सद्गुरुमुपगम्य नमस्कृत्य विश्वासविनयाभ्यां सह ‘हे स्वामिन्, हे भगवन्, गुरो’ इति संबोध्य ‘जीवः कः? ईश्वरः कः? जगत् कीदृशम्? एतत्त्रितयं कस्मादागतम्? कस्माद्गमिष्यति?’ इति प्रश्नं कुर्यात्, ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्॥’ (मु० १.२.१२) इत्यादिश्रुतेः ‘तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥’ (गी०४.३४) इति गीतावचनाच्च॥

एवं शिष्येण प्रार्थितः सद्गुरुर्दयया सत्त्वरजस्तमोगुणैर्जीवेश्वरजगतामागमनप्रकारं बोधयित्वा आत्मस्वरूपमपि करतलामलकबद्बोधयति। अस्याधिकारिणः साधनचतुष्टयं च बहुजन्मार्जितपुण्यपुञ्जपरिपाकवशादीश्वरानुग्रहेण लब्धमिति वेदितव्यम्। एतत्तत्त्वज्ञानप्रदायकं गुरुमीश्वरमेव विद्यात्। एवं यो गुरुमुखाज्जीवात्मपरमात्मनोरभेदं विचार्य जानाति स एव मुक्तिं गमिष्यतीति सिद्धम्॥

इति द्वितीयवर्णकम् ॥