अयं प्रपञ्चः कतिविध इति चेदात्माऽनात्मा चेति द्विप्रकारः। प्रपञ्चातीतस्यात्मनः कथं प्रपञ्चान्तर्भूतत्वमिति न शङ्कितव्यम्। कथमिति चेत्, अस्य प्रपञ्चस्य चेतनाचेतनात्मकत्वादात्मनश्चेतनरूपत्वादात्मानं विना प्रपञ्चस्याभावादात्मनः प्रपञ्चान्तर्भावो वक्तव्य एव।
तर्हि चेतनं किमचेतनं किमिति चेत्, जङ्गमं सर्वं चेतनं स्थावरं सर्वमचेतनम्। तर्हि चेतनानामचेतनानां च प्रत्येकं बहुप्रकारत्वात् कथं द्विप्रकार एव प्रपञ्च इति चेच्छृणु। अनात्मैक एव। स कार्यरूपेणानेकरूपोऽभूत्। आत्मा चैकरूप एव। सोऽप्यनात्मकार्योपाधिभिरनेकजीवा इत्यनेकेश्वरा इति च भाति। एकस्येश्वरस्य जीववत् कथमनेकत्वमिति चेत्, पुण्यक्षेत्रेषु ग्रामेषु गृहेषु च शिवविष्ण्वादिमूर्तिभेदेन स्थितत्वादिति ब्रूमः। मृच्छिलादिरूपाणां तासां मूर्तीनां कथमीश्वरत्वमिति चेत् ; ईश्वरत्वमस्ति, सर्वैरपि तासु मूर्तिषु बहुद्रव्यव्ययं कृत्वा अभिषेकनैवेद्यादेः क्रियमाणत्वात्। येषां शास्त्रे विश्वासो नास्ति ते म्लेच्छादयो मूर्तीनां पूजने नोदाहरणीयाः, सर्वतः श्रद्धावतामेवोदाहरणीयत्वात्। किं च ये मलमूत्राद्यात्मकेऽस्मिञ्शरीर आत्मबुद्धिं कुर्वतां जीवानामत्यन्तशुद्धासु मूर्तिष्वीश्वरबुद्धिकरणे को वा दोषः? एवमेकस्यात्मनः कार्यरूपेणानेकत्व एकस्यात्मनो ऽनात्मकार्योपाधिभिरनेकत्वे च दृष्टान्तः क इति चेत्, शृणु।
यथैव पृथिवी कार्यरूपेण परिणता सती पर्वतो वृक्षो गोपुरं कुड्यं कुलं गृहं मठो घटः शराव इत्यादिभेदं गच्छति, तथा मूलप्रकृतिरनात्मैक एव कार्यशरीररूपेणानेको जातः ; यथा आकाश एक एव पृथिवीकार्योपाधिषु प्रविष्ट इव प्रतीयमानः ‘अयं घटाकाशः’, ‘अयं मठाकाशः’ इत्यादिरूपेणानेकधा भाति, तथा आत्मा स्वयमेकोऽपि तत्तच्छरीरोपाधिभिस्तत्र प्रविष्ट इव सन् देवो मनुष्यो रामः कृष्णो ब्राह्मणः क्षत्रियो वैश्यः शूद्रः पशुः पक्षी क्रिमिः कीट इति बहुधा भाति। अयमवच्छिन्नपक्षे दृष्टान्तः।
प्रतिबिम्बपक्षे तु, समुद्रो नदी तटाः कूपो घटजलमित्येकमेव जलं यथा बहुधा जातं, तथाऽनात्मापि बहुधा जातः; तेषु समुद्रादिष्वादित्य एक एव प्रतिबिम्बितः सन् यथा बहुधा जातः, तथैक एवात्माऽन्तःकरणसहितेषु सर्वेष्वपि शरीरेषु प् रतिबिम्बितः सन्ननेको जातः इत्युभयत्रापि दृष्टान्तो ज्ञातव्यः।
यथा जलधर्माः शीतचलनादयस्तज्जलनिष्ठप्रतिबिम्ब एव भान्ति बिम्बभूतमादित्यं न स्पृशन्ति, तथाऽन्तःकरणधर्माः कर्तृत्वभोक्तृत्वविकारा अपि तदन्तःकरणनिष्ठचिदाभास एव भान्ति बिम्बभूतमात्मानं न स्पृशन्ति। तस्माज्जीवात्मैव परमात्मा परमात्मैव जीवात्मा। कथमिति चेत्, यथा घटाकाश एव महाकाशो महाकाश एव घटाकाश एवमिति जानीहि॥
ननु जीवात्मनः कल्पितत्वात् कल्पितस्य चासत्यत्वात् कथं तस्य सत्यपरमात्माभेद इति चेत्। पारमार्थिको व्यावहारिकः प्रातिभासिक इति जीवस्त्रिविधः। एते जीवाः क्रमेण सुषुप्तिजाग्रत्स्वप्नाभिमानिनः। यथा जले तरङ्गः कल्पितस्तरङ्गे च फेनः कल्पितः, तथा पारमार्थिके व्यावहारिकः कल्पितो व्यावहारिके च प्रातिभासिकः कल्पितः। यथा माधुर्यद्रवत्वशैत्यादीनि पारमार्थिकजलनिष्ठान्येव सन्ति तरङ्गे भान्ति तद्वारा फेनेऽपि भान्ति, तद्वत्सच्चिदानन्दाः पारमार्थिककूटस्थनिष्ठा एव सन्तो व्यावहारिके भान्ति तद्वारा प्रातिभासिकेऽपि भान्ति। यथा फेनस्तरङ्गं विना नास्ति, तरङ्गोऽपि जलं विना नास्ति, जलं तु परमार्थभूतम् एवं प्रातिभासिकोऽपि व्यावहारिकं विना नास्ति, व्यावहारिकोऽपि पारमार्थिकं विना नास्ति। तस्माद्यथा परमार्थत्वेन घटाकाशो महाकाश एव, एवं पारमार्थिकः कूटस्थः परमात्मैवेति सिद्धान्तः।
एवम् ‘नेति नेति’ (बृ० २.३.६) इति वाक्येन देहादिपञ्चकोशेभ्यः पारमार्थिकं कूटस्थं पृथक्कृत्य तं पारमार्थिकं कूटस्थम् ‘अहम्’ इति जानन् सन् तत् ‘अहं ब्रह्मास्मि’ इति श्रुतिविचारेण युक्तिभिर्दृढनिश्चयेन साक्षात्कृत्य तिष्ठति। स एष परिपूर्णब्रह्मस्वरूपः, तमेव पुण्यपापकर्माणि न स्पृशन्तीति सर्वा अप्युपनिषद एकतात्पर्येण घुष्यन्ति॥
इति तृतीयवर्णकम्॥