॥ श्रीः ॥ ॥ लघुवासुदेवमननम् ॥
सर्वतन्त्रस्वतन्त्राय सदात्माद्वैतवेदिने।
श्रीमते शङ्करार्याय वेदान्तगुरवे नमः॥१॥
योऽवतीर्ण इहाचार्यरूपेण यतिनां मुदे।
श्रीमन्नारायणं वन्दे तं हरिं करुणानिधिम्॥२॥
मननाख्यं प्रकरणं वासुदेवयतीश्वरैः।
रचितं विस्तरेणाद्य संग्रहेण प्रकाश्यते॥३॥
बालानामुपकाराय मम विज्ञानसिद्धये।
तत्र श्रीबालगोपालकृष्णः सन्निहितो भवेत्॥४॥
इह खलु धर्मार्थकाममोक्षाणां चतुर्णां पुरुषार्थानां मध्ये मोक्ष एव परमपुरुषार्थः, नित्यत्वात् ‘न च पुनरावर्तते न च पुनरावर्तते’ (छा० ८.१५.१) इति श्रुतेः। इतरेषां त्रयाणां न तथात्वम्, अनित्यत्वात् ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा० ८.१.६) इति श्रुतेः। स च मोक्षो ब्रह्मज्ञानादेव सिध्यति, ‘तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ (श्वे० ६.५), ‘ब्रह्मविदाप्नोति परम्’ (तै० २.१) इत्यादिश्रुतिभ्यः॥
तच्च ब्रह्म अध्यारोपापवादाभ्यां ज्ञातव्यम्, आरोपितनिवृत्त्यैवाधिष्ठानज्ञानोदयात्, ‘अध्यारोपापवादाभ्यां ज्ञातव्यस्तत्त्वनिर्णयः’, ‘न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः’ ( कै० २.) इति वचनात्। तस्मान्मुमुक्षुणा अध्यारोपापवादाववश्यं ज्ञातव्यौ ॥
तत्र अध्यारोपो नाम शुक्तिकायां रजतवत्, रज्जौ सर्पवत्, स्थाणौ पुरुषवच्च निष्प्रपञ्चात्मवस्तुनि प्रपञ्चारोपः। अयमध्यारोपो वस्त्वज्ञानादागतः। तदज्ञानमेवाविद्या तमो मोहो मूलप्रकृतिः प्रधानं गुणसाम्यमव्यक्तं मायेति चोच्यते। मूलप्रकृतिर्नाम शुक्लरक्तकृष्णतन्तुसमुदायरूपरज्जुवत् सत्त्वरजस्तमोगुणसमुदायरूपा। अस्याः प्रलयो महासुषुप्तिरिति च नाम। अस्यां मूलप्रकृतावनन्तकोटिजीवाः स्वस्वकर्मवासनाभिः सह जतुपिण्डे सुवरेणव इव सृष्टेः पूर्व लीना वर्तन्ते। अयमनुभवः सकलजनानां सुषुप्त्यवस्थायामस्ति। सा मूलप्रकृतिः सृष्टिकाले परिपक्वजीवकर्मवशान्मायाऽविद्या तामसीति त्रिविधा जाता। तत्र माया विशुद्धसत्त्वप्रधाना। तत्र प्रतिविम्बितं सत् सृष्टेः पूर्वं विद्यमानं ब्रह्मचैतन्यमीश्वर इत्युच्यते। तस्याव्याकृतोऽन्तर्यामीति च नाम। स एव जगत्स्रष्टा। स एव परिपूर्णं ब्रह्मचैतन्यम्। तदेव तामस्यवच्छिन्नं सत्, जगदुपादानमपि भवति। तन्तोरूर्णनाभवत् स्वोपाधिप्राधान्येनोपादानकारणं, स्वप्राधान्येन निमित्तकारणम् ॥
अयमीश्वरः केन प्रकारेण जगत्सृष्टवानिति चेत्, उच्यते – पूर्वोक्ताऽविद्या रजःप्रधाना बहुप्रकाराऽनन्ता। तदविद्याप्रतिबिम्बितचैतन्यरूपा जीवा अप्यनन्ताः। अनयोर्जीवेश्वरयोर्व्यष्टिरूपाऽविद्या समष्टिरूपा मूलप्रकृतिश्च क्रमेण कारणशरीरे। तयोः कारणशरीरयोर्जीवस्येश्वरस्य चावस्थानं सुषुप्त्यवस्था। तयोः स्वस्वकारणशरीरमेवानन्दमयकोशः। एवं कारणप्रपञ्चसृष्टिः॥
अथ सूक्ष्मप्रपञ्चसृष्टिरुच्यते – ईश्वरस्येक्षणवशात् तमोगुणरूपा प्रकृतिरावरणशक्तिर्विक्षेपशक्तिरिति द्विविधा जाता। तत्र विक्षेपशक्तिरेव सूक्ष्म आकाशोऽभवत्। आकाशाद्वायुः। वायोरग्निः। अग्नेरापः। अद्भ्यः पृथिवी। एतेषां पञ्चभूतानां सूक्ष्मभूतान्यपञ्चीकृतानि तन्मात्राणि चेति नाम। एतेषामपि सत्त्वरजस्तमोगुणाः कारणादज्ञानादागताः सन्ति। एतेषामाकाशादीनां पृथक्पृथक् सत्त्वगुणांशाच्छ्रोत्रं त्वक्चक्षुर्जिह्वा घ्राणमिति पञ्च ज्ञानेन्द्रियाणि क्रमेण जातानि। आकाशादिसत्त्वसमष्ट्या ऽन्तःकरणं जातम्। तच्च मनोबुद्धयहंकारचित्तभदेने चतुर्विधम्। तत्र बुद्धावहङ्कारस्य मनसि चित्तस्य चान्तर्भावः। एवमाकाशादिरजोगुणाद् वाक्पाणिपादपायूपस्था इति पञ्च कर्मेन्द्रियाणि जातानि। आकाशादिरजोगुसमष्ट्या प्राणो जातः। स च प्राणापानव्यानोदानसमानभेदेन पञ्चविधः। एतज्ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं मनो बुद्धिश्चैकीभूय सप्तदशात्मकं सूक्ष्मशरीरं लिङ्गाख्यमुच्यते। इदमेव भोगसाधनम्। अस्मिन् सूक्ष्मशरीरे जीवेश्वरयोरवस्थितिः खप्नावस्था। अस्मिन् विज्ञानमयकोशो मनोमयकोशः प्राणमयकोशश्च सन्ति। एवं सूक्ष्मसृष्टिप्रकारः ॥
अथ स्थूलसृष्टिप्रकार उच्यते – अथ तमोगुणप्रधानान्यपञ्चीकृतान्याकाशादीनि पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य तत्रैकैकमर्थं चतुर्धा विभज्य स्वार्धभागं विहायेतरभूतार्धभागेषु संयोजनं पञ्चीकरणम्। एवं कृते पञ्चापि पञ्चीकृतानि भवन्ति। एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं तदन्तश्चतुर्दश भुवनानि तेषु चाण्डजजरायुजस्वेदजोद्भिज्जरूपचतुर्विधस्थूलशरीराण्यनादिभोग्यवस्तूनि च जातानि। अस्मिन् स्थूलशरीरे जीवेश्वरयोरवस्थानं जाग्रदवस्था। इदं स्थूलमेवान्नमयकोशः। एवं स्थूलसृष्टिप्रकारः॥
इदं कारणशरीरं सूक्ष्मशरीरं स्थूलशरीरं च प्रत्येकं व्यष्टिसमष्टिभेदेन द्विविधम्। ‘वनम्’ ‘ग्रामः’ इत्यादि समष्टिः, ‘वृक्षः’ ‘गृहम्’ इत्यादि व्यष्टिः। एवं सर्वशरीरं समष्टिः, एकशरीरं व्यष्टिः। तत्र समष्ट्युपाधिक ईश्वरः, व्यष्टयुपाधिको जीवः। तत्रापि कारणसमष्ट्येश्वरः, कारणव्यष्ट्या प्राज्ञः। सूक्ष्मसमष्ट्या हिरण्यगर्भः, सूक्ष्मव्यष्ट्या तैजसः। स्थूलसमष्ट्या वैश्वानरः, स्थूलव्यष्ट्या विश्वः। इति जीवेश्वरयोरवान्तरभेदः ॥
अयमेवेश्वरः सत्त्वरजस्तमोगुणैरुपाधिभिर्ब्रह्मविष्णुरुद्ररूपेण सृष्टिस्थितिसंहारान् करोति। ब्रह्मणो विराट् पुरुषेऽन्तर्भावः। विष्णोर्हिरण्यगर्भेऽन्तर्भावः। रुद्रस्य चेश्वरेऽन्तर्भावः। एवं प्रपञ्चोत्पत्तिः। अयमेवाध्यारोपः। इदं विक्षेपशक्तिकार्यम्॥
अथावरणशक्तिकार्यमुच्यते – ईश्वरमात्मज्ञानिनं च विहायान्येषां सर्वेषां जीवानां पञ्चकोशानामात्मनश्च भेदमावरणशक्तिरन्धकार इवावृणोति। आवरणं च द्विविधमसत्त्वावरणमभानावरणं चेति। ‘वस्तु नास्ति’ इति व्यवहारकारणमसत्त्वावरणम्। ‘वस्तु न भाति’ इति व्यवहारकारणमभानावरणम्। आवरणशक्तिकार्यमेव संसारवृक्षस्य मूलम्, न विक्षेपशक्तिकार्यम्। एतन्मोक्षसिद्धेरपि हेतुः। द्विविधमप्यावरणं तत्त्वज्ञानेन विनाश्यम्। तत्त्वज्ञानं च परोक्षज्ञानमपरोक्षज्ञानं चेति द्विविधम्। तत्र गुरुमुखाद्वेदान्तजन्यं ज्ञानं परोक्षज्ञानम्। इदमेव श्रवणम्। अनेन ‘वस्तु नास्ति’ इत्येवंरूपमसत्त्वावरणं नश्यति। तदा ‘वस्त्वस्ति’ इति व्यवहियते। श्रवणेन संशयं मननेनासंभावनां निदिध्यासनेन विपरीतभावनां च निवर्त्य देहात्मज्ञानवद्ब्रह्मात्मज्ञानं जायमानमपरोक्षज्ञानम्। अनेन ‘वस्तु न भाति’ इति व्यवहारहेतुरभानावरणं नश्यति। एवं परोक्षज्ञानेनापरोक्षज्ञानेन च ‘ब्रह्म नास्ति, न भाति’ इति व्यवहारहेतुरावरणद्वयमपि नश्यति। तदाऽनर्थनिवृत्तिरानन्दावाप्तिश्च भवतः। इति सप्तावस्थाः सिध्यन्ति। सप्तावस्था नाम –
‘अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधी:।
अपरोक्षमतिः शोकहतिस्तृप्तिर्निरङ्कुशा ॥’ इति।
एवमाकाशवन्निर्मले चैतन्यवस्तुनि मिथ्याभूतप्रपञ्चकल्पनमध्यारोपः॥
अथापवाद उच्यते – ‘कारणव्यतिरेकेण कार्यं नास्ति’ इति बोधेन शुक्तिकायां रजतवद्रज्जौ सर्पवच्च ‘ब्रह्मणि प्रपञ्चो नास्ति’ इति निषेधोऽपवादः। ‘या मा सा माया’ ‘या न विद्यते साऽविद्या’ इति व्युत्पत्त्या मायायाः कल्पितत्वं सिद्धम्। एवं यः ‘ब्रह्मव्यतिरेकेण किमपि नास्ति, तद्ब्रह्माहमेव’ इति विचार्य जानाति स एव जीवन्मुक्त इति वेदान्तसिद्धान्तः।
इति प्रथमवर्णकम् ॥